________________
Shri Mahavir Jain Aradhana Kendra
..
www.kobatirth.org
श्रीमदुमास्वामिविरचितस्य
तत्त्वार्थ सूत्रस्य श्रीश्रुतसागरसूरिरचिता
तत्त्वार्थवृत्तिः
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रथमोऽध्यायः ]
सिद्धोमास्वामिपूज्यं जिनवरवृषभं वीरमुत्तीरमाप्तं श्रीमन्तं पूज्यपाद गुणनिधिमधियन् सत्प्रभाचन्द्रमिन्द्रम् | श्रीविद्यानन्द्यधीशं गतमलमकलङ्कार्यमानम्य रम्यं
वक्ष्ये तवार्थवृत्ति निजविभवतयाऽहं 'श्रुतोदन्वदाख्यः ॥ १ ॥
अथ श्रीमदुमास्वामिभट्टारकः कलिकालगणधरदेवो महामुनिमण्डलीसंसेवित- ५ पादपद्मः कस्मिंश्चिदाश्रमपदे सुस्थितः मनोवाक्कायसरळतया वाचंयमोऽपि निजमूर्त्या साक्षान्मोक्षमार्गं कथयन्निव सर्वप्राणिहितोपदेशैककार्यः समार्थजनसमाश्रितः निर्मन्थाचार्यषर्यः अतिनिकटीभवत्परमनिर्वाणेनासन्नभव्येन ' द्वैयाकनाम्ना भव्यवरपुण्डरीकेण सम्पृष्टः 'भगवन्, किमात्मने हितम् ?" इति । भगवानपि तत्प्रश्नवशात् 'सम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षितं सन्मार्गसम्प्राप्यो मोक्षो हितः' इति प्रतिपादयितुकाम इष्टदेवता- १० विशेष नमस्करोति
मोक्षमार्गस्य नेतारं भेत्तारं
कर्मभूभृताम् ।
ज्ञातारं विश्वतत्वानां वन्दे तद्गुणलब्धये ॥ १ ॥
वन्दे नमस्करोमि । कः ? कर्ताहमुमास्वामिनामाचार्यः भव्यजीवविश्रामस्थानप्रायः । किमर्थं वन्दे ? तद्गुणलब्धये । तस्य भगवतः सर्वज्ञवीतरागस्य गुणास्तद्गुणाः तेषां १५ धः प्राप्तिः तद्गुणलब्धिः सस्यै तद्गुणलब्धये । 'के तस्य गुणाः' इति प्रश्ने भगवद्गुणत्रयगर्भितं विशेषणत्रयमाह । कथम्भूतं सर्वज्ञवीतरागम् ? मोक्षमार्गस्य नेतारम् । मोक्षः सर्वकर्मविप्रयोगलक्षणः, तस्य मार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणो वक्ष्यमाणो मोक्षमार्गः,
१ श्रुतसागरः । २ मौनवानपि । ३ जनमाश्रि-व० । ४ निग्र - ता० । ५ द्वेयाक व० | द्वैयायिक - आ० । एतन्नामा श्रावकः । ६ भगवन्नत्र कि - व० ।
For Private And Personal Use Only