________________
पुरुषप्रधानसंयोगः । [ सां. त. तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २० ॥ “ तस्मात्" इति । यतश्चैतन्यकर्तृत्वे भिन्नाधिकरणे युक्तितः सिद्धे, तस्मात् (१३६ ) इष्टापत्तिः। धान्तिरियमित्यर्थः । “लिङ्गम् ' महदादिसूक्ष्मपर्यन्तं सामानाधिकरण्यज्ञानं वक्ष्यति । भ्रान्तिबीजम् तत्संयोगः तत्सविधानम् । भ्रान्तिविलसितम् ॥ तिरोहितार्थमन्यत् ॥ २० ॥
'तत्संयोगात् ' इत्युक्तम् , न च भिन्नयोः संयोगोऽपेक्षां विना, न चेय(१३७) पुरुषप्रधानयोः मुपकार्योपकारकभावं विनेत्यपेक्षाहेतुमुपकारमाहसंयोगे शङ्का ॥
पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य ।
पैङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ " पुरुषस्य " इति । प्रधानस्येति कर्मणि षष्टी । प्रधानस्य सर्वसाधारणस्य
- यद्दर्शनं पुरुषेण तदर्थम् । तदनेन भोग्यता प्रधानस्य पुरुषापेक्षा-भोक्त्रपेक्षा ॥
दर्शिता । ततश्च भोग्यं प्रधान भोक्तारमन्तेण न
" सम्भवतीति युक्ताऽस्य भोक्त्रपेक्षा ॥ "पुरुषस्यापेक्षा दर्शयति-" पुरुषस्य कैवल्यार्थम्" इति। तथाहि भोग्येन
प्रधानेन सम्भिन्नः पुरुषस्ततं दु:खत्रयं स्वात्मन्यभि( १३९ ) कैवल्यार्थ मन्यमानः कैवल्यम् प्रार्थयते। तच्च सत्वपुरुषान्यतापुरुषस्य प्रधानापेक्षा ॥ ख्यातिनिबन्धनम् । न च सत्वपुरुषान्यताख्यातिः
प्रधानमन्तरेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षते अनादित्वाच्च संयोगपरम्पराया भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यत इति युक्तम् ॥
१. गुणानां कर्तृत्वे उदासीनोऽपि पुरुषः कर्तेव भवति । न च स तस्वतः कर्तेत्येवकाराभिप्रायः । २. कारिकास्थाः पदार्थाः स्पष्टा एवेत्यर्थः । ३. पुरुषो निष्क्रियत्वात् ' पङ्गुः,' प्रधानमचेतनत्वात् 'अन्धम् ।