________________
को. ९] कार्यसत्त्वसाधनानि । पयसः । असतः करणे तु न निदर्शनं किञ्चिदस्ति । न खल्वभिव्यज्यमानं चोरपद्यमानं वा क्वचिदसददृष्टम् ॥ इतश्च कारणव्यापारात् प्राक् सदेव कार्यम्- “ उपादानग्रहणात्"।
उपादानानि कारणानि, तेषा ग्रहणं, कार्येण सम्बन्धः। सम्बन्धाच्च सत्कार्यमिति उपादानैः कार्यस्य सम्बन्धादिति यावत् । एतदुक्तं द्वितीयो हेतुः ( २ ) ॥ भवति-कार्येण सम्बद्धं कारणम् कार्यस्य जनकम् ,
सम्बन्धश्च कार्यस्यासतो न सम्भवति, तस्मादिति ॥ स्यादेतत्-असम्बद्धमेव कार्य कारणैः कस्मान जन्यते ? तथा चासदेवो. (६७) कार्यकारण. त्पत्स्यत इत्यत आह-"सर्वसम्भवाभावात्" इति । योर्नियतसम्बन्धाभावे असम्बद्धस्य जन्यस्वे, असम्बद्धत्वाविशेषेण सर्व सर्वकार्यकारणभाव. कार्यजातं सर्वस्माद्भवेत् । न चैतदस्ति, तस्मानाविप्लवापत्तिः॥ सम्बद्धमसम्बद्धन जन्यते अपि तु सम्बद्धं सम्बद्धेन,
जन्यत इति । यथाहुः सांख्यवृद्धाः" असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य धोत्पत्तिमिच्छतो न व्यवस्थितिः " इति ॥ स्यादेतत्-मसम्बद्धमपि सत् तदेव करोति यत्र यत् कारणं शक्तम् ।
शक्तिश्च कार्यदर्शनादवगम्यते । तेन नाव्यवस्थेत्यत (६८) कारणशक्तेः ' आह "शक्तस्य शक्यकरणात्" इति । सा शक्तिः शक्तकार्यपरत्वाच्च सत्कार्यम् कारणाश्रया सर्वत्र वा स्यात् , शक्ये एव वा ? सर्वत्र (३)॥ चेत्तदवस्थैवाव्यवस्था, शक्ये चेत्, कथमसति शक्ये
तत्र, इति वक्तव्यम् । शक्तिभेद एव एतादृशो यतः किञ्चिदेव कार्य जनयेत् न सर्वमिति चेत् , हन्त भोः शक्तिविशेषः कार्यसम्बद्धो वाऽसम्बद्धो वा ? सम्बद्धस्वे नासता सम्बन्धः इति सन् कार्यम् । असम्बद्धत्त्वे सैवाव्यवस्था, इति सुष्टूक्तं "शक्तस्य शक्यकरणात् " इति ॥
इतश्च सत् कार्यमित्याह- " कारणभावाच्च" । कार्यस्य कारणात्म(६९) कारणात्मकत्वात् कस्वात् । नहि कारणाग्निं कार्यम् , कारणं च कार्यस्य सत् कार्यम् (४)॥ सत्, इति कथं तदभिवं कार्यमसत् भवेत् ॥
१. पञ्चशिखादयः।