________________
वीतनिरूपणम् । [सां. त. वीतं द्वेधा-पूर्ववत् सामान्यतो दृष्टं च । तत्रैकम् दृष्टस्वलक्षणसामान्यविषयं
यत्तत्पूर्ववत् , पूर्व प्रसिद्धं, दृष्टस्वलक्षणसामान्यमिति (३९) वीतनिरूपणम् यावत् , तदस्य विषयत्वेनास्त्यनुमानज्ञानस्येति पूर्व-तद्वैविध्यम् ॥ वत् । यथा धूमावह्नित्वसामान्यविशेषः पर्वतेऽनुमी
यते, तस्य वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् । अपरं च वीतं सामान्यतो दृष्टमदृष्टस्वलक्षणसामान्यविषयम् । यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन करणवत्त्वमनुमीयते । यद्यपि करणत्वसामान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम् , तथाऽपि यजातीयं रूपादिज्ञाने करणत्वमनुमीयते तजातीयस्य करणस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण । इन्द्रियजातीयं हि तत्करणम् , न चेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वाग्दृशाम् , यथा वह्नित्वसामान्यस्य॑ स्वलक्षणं वह्निः । सोऽयं पूर्ववत: सामान्यतो दृष्टात् सत्यपि वीतत्वेन तुल्यत्वे विशेषः। अत्र च दृष्टं दर्शनम् , सामान्यत इति सामान्यस्य, सार्वविभक्तिकस्तसिल् । अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्शनम् सामान्यतो दृष्टमनुमानमित्यर्थः । सर्वं चैतदस्माभिर्व्यायवार्तिकतात्पर्यटीकायां व्युत्पादितमिति नेहोक्तं विस्तरभयात् ॥ प्रयोजकवृद्धशब्दश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृत्तिहेसुज्ञानानुमानपूर्वकत्वा
.. च्छब्दार्थसम्बन्धग्रहणस्य, स्वार्थसम्बन्धज्ञानसहकारि(४०) शब्दप्रमाण
णश्च शब्दस्यार्थप्रत्यायकत्वादनुमानपूर्वकत्वमित्यनुमालक्षणम् ॥
नानन्तरं शब्दं लक्षयति- “ आप्तश्रुतिराप्तवचनं तु " इति । आप्तवचनमिति लक्ष्यनिर्देशः, परिशिष्टं लक्षणम् । आप्ता प्राप्ता युक्तति यावत् । आप्ता चासौ श्रुतिश्चेति ‘आप्तश्रुतिः । श्रुतिः वाक्यजनितं वाक्यार्थज्ञानम् ॥ ___ तश्च स्वतः प्रमाणम् । अपौरुषेयवेदवाक्यजनितत्वेन सकलदोषाशङ्कावि(४१) तस्य स्वतः- निर्मुक्तेर्युक्तं भवति । एवं वेदमूलस्मृतीतिहासपुराणप्रामाण्यम् ॥ · वाक्यजनितमपि ज्ञान युक्तं भवति ॥
१. दृष्टं स्वलक्षणं यस्य सामान्यस्य-तत् सामान्यं विषयो यस्येति विग्रहः ।