________________
को. ५ ]
अनुमानलक्षणम् प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाज्ञानादयः परपुरुषवर्तिनो ऽभिप्रायभेदाद्वचनभेदाद्वा लिङ्गादनुमातव्याः, इत्यकामेनाप्यनुमानप्रमाणमभ्युपेयम् ॥ तत्र प्रत्यक्षकार्यत्वात् अनुमान प्रत्यक्षानन्तरं लक्षणीयम् । तत्रापि
सामान्यलक्षणपूर्वकत्वाद्विशेषलक्षणस्यानुमानसामान्य (३५) अनुमानस्य
तावल्लक्षयति- “ तत् लिङ्गलिङ्गिपूर्वकम् ” इति । सामान्यलक्षणम् ॥
" लिङ्गम् व्याप्यम् । लिङ्गि व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन च स्वभावप्रतिबद्धं व्याप्यम् , येन प्रतिबद्धं तद्वयापकम् । लिङ्गलिङ्गिग्रहणेन विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । धूमादियांप्यो वह्नयादिर्व्यापक इति यः प्रत्ययस्तत्पूर्वकम् । लिङ्गग्रहणं चावर्तनीयम् । तेन च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितम्भवति । तद्वयाप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानमित्यनुमानसामान्यं लक्षितम् ॥
अनुमानविशेषान् तन्त्रान्तरलक्षितान् अभिमतान, स्मारयति- “ त्रिवि(३६) अनुमानस्य धमनुमानमाख्यातम्" इति । तत् सामान्यतो विशेषलक्षम्-त्रैविध्यम् पूर्ववच्छेषवत्सामान्यतो उपासतमानमान विशषतास्त्रावध, पूर्ववत्
नुलक्षितमनुमानं विशेषतस्त्रिविधं, पूर्ववत्-शेषवत्दृष्टभेदात्
सामान्यतो दृष्टञ्चेति ॥ तत्र 'प्रथमं तावत् द्विविधम्-चीतमवीतं च । अन्वयमुखेन प्रवर्तमानं (३७) वीतावीतरूपेणा; विधायकं वीतम् , व्यतिरेकमुखेन प्रवर्तमानं निषेधनुमानस्य द्वैविध्यम् ॥ कमवीतम् ॥
तत्रावीतं शेषवत् । शिष्यते परिशिष्यते इति शेषः, स एव विषयतया यस्या(३८) अवीतनि- स्त्यनुमानज्ञानस्य तच्छेषवत् । यदाहः-" प्रसक्त
प्रतिषेधे, अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः रूपणम्
परिशेष" इति [वात्स्यायन-न्यायभाष्य १. १.५.]. भस्य चावीतस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्यते ॥
१. एकेन विभागप्रकारेण अनुमानम् द्विविधमिति भावः । २. अत्राहू राघवा. नन्दतीर्थाः-"सतां सम्मतिमाह यथाहुरिति-गुणत्वात् पृथिव्याश्रयः शब्दः स्यादिति प्रसक्तस्य शब्दस्य न पृथिवीगुणत्वम् , अपाकजविशेषगुणत्वात् , तद्विशेषगुणेन गन्धेन च सहावृत्तित्वात् । एवं निषेधे कृते आकाशादन्यत्र भूम्याद्यष्टस्वप्रसङ्गात्, शिष्यमाणे आकाशे एव शब्दस्य गुणत्वेन सम्यक्प्रत्ययः " - इति ॥