________________
सो
१० प्रत्यक्षलक्षणम् ।
[स. त. सत्याम् , बुद्धस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय' इति । वृत्तिरिति ज्ञानमिति चाख्यायते । इदं तावत् प्रमाणम् , अनेन यश्चेतनाशक्तेरतुमाहस्तस्फलं प्रमाबोधः ।। बुद्धितस्वं हि प्राकृतस्वादचेतनम्, इति तदीयोऽध्यवसायोऽप्य चेतनो,
घटादिवत् । एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणाम(३१) ज्ञानानाम- भेदा अचेतनाः । पुरुषस्तु सुखाधननुषङ्गी चेतनः । चेतनत्वम् ॥ सोऽयं बुद्धितत्ववर्तिना ज्ञानसुखादिना तत्प्रति
बिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीतिचेतनोऽनुगृह्यते । चितिच्छायापत्त्याऽचेतनाऽपि बुद्धिस्तदध्यवसायोऽप्यचेतनश्चेतनवद्भवतीति । तथा च वक्ष्यति
" तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ।।" इति [कारिका. २० ]. भन्नाध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति, संशयस्यानवस्थितग्रहणेनानिश्चितरूपत्वात् । निश्चयोऽध्यवसाय इति चानान्तरम् । विषय(३२) प्रत्यक्षलक्षणा- ग्रहणेन चासद्विषयं विपर्ययमपाकरोति । प्रतिग्रहणेन न्तर्गतानां शब्दानां चेन्द्रियार्थससिकर्षसूचनादनुमानस्मृत्यादयश्च पराकृता व्यावृत्तिः ॥ भवन्ति ॥
तदेवं समानासमानजातीयव्यवच्छेदकत्वात् "प्रतिविषयाध्यवसाय” इति (३३) प्रत्यक्षस्य दृष्टस्य सम्पूर्ण लक्षणम् । तन्त्रान्तरेषु लक्षणान्तराणि पर्यवसितं लक्षणम् ॥ तैर्थिकानां न भूषितानि, न दूषितानि, विस्तरभयादिति।। नानुमानम्प्रमाणमिति वदता लोकायतिकेनाप्रतिपन्नः सन्दिग्धो विपर्यस्तो
वा पुरुषः कथं प्रतिपधेत ? न च पुरुषान्तरगत (३४) अनुमानस्य
___ अज्ञानसंदेहविपर्ययाः शक्या अर्याग्दृशा प्रत्यक्षेण
प्रतिपत्तुम् । नापि प्रमाणान्तरेण, मनभ्युपगमात् । अनवरताज्ञानसंशयविपर्ययस्तु यं कंचन पुरुषं प्रति वर्तमानोऽनवधेयवचनतया
प्रमाणत्वस
१. अयमध्यवसाय एव च प्रत्यक्षमिति शेषः। २. समानार्थकमेवेति ।