________________
को. ३]
शास्त्रसंक्षेपः । " एवं तत्वाभ्यासानास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् " इति [ कारिका, ६४ ] ॥ २ ॥
(१७) शास्त्रार्थसंक्षेप.- तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय प्रकृति-प्रकृतिविकृति- शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थ संक्षे. विकृत्यनुभयरूपक्रमेण ॥ पतः प्रतिजानीते
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिन विकृतिः पुरुषः ॥३॥
"मूल-” इति । संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव, कश्चिदर्थो विकृतिरेव, कश्विरप्रकृति विकृतिः, कश्चिदनुभयरूपः ।
तत्र का प्रकृतिरित्युक्तम्- “मूलप्रकृतिरविकृतिः" इति । प्रकरोतीति प्रकृतिः (१८) प्रकृतिकथनम् ॥
र प्रधानम् , सत्त्वरजस्तमला साम्यावस्था, सा अवि
" कृतिः, प्रकृतिरेवेत्यर्थः । कुत इत्युक्तम्-, "मूलेति" मूलचासौ प्रकृतिश्चेति मूलप्रकृतिः। विश्वस्य कार्यसंघातस्य सा मूलम् , न स्वस्या मूलान्तरमस्ति, अनवस्थाप्रसङ्गात् । न चानवस्थायां प्रमाणमस्तीति भावः।।
कतमाः पुनः प्रकृतिविकृतयः, कियत्यश्चेत्यत उक्तम् - " महदाद्याः प्रकृति(१९) प्रकृतिविकृति- विकृतयः सप्त ' इति । प्रकृतयश्च विकृतयश्च ता इति
"प्रकृतिविकृतयः", सप्त । तथा हि महत्तत्त्वम् मह. कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः, विकृतिश्च महतः । एवं पञ्चतन्मात्राणि तत्त्वानि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य ॥ मथ का विकृतिरेव, कियती चेत्यत उक्तम्-"षोडशकस्तु विकारः" इति ।
षोडशसंख्यापरिमितो गणः षोडशकः । 'तु' शब्दो (२०) विकृतिकथनम् ।। ऽवधारणे भिन्नक्रमः-पञ्चमहाभूतानि एकादश इन्द्रि
याणीति षोडशको गणो विकार एव, प्रकृतिरिति । यद्यपि पृथिव्यादीनां गोघटवृक्षादयो विकाराः, एवन्तद्विकारभेदानां पयो. बीजादीनां दध्यकुरादयः, तथाऽपि गवादयो बीजादयो वा न पृथिव्यादि.
कथनम् ॥