________________
शास्त्रविषयज्ञानस्य श्रेयस्त्वम् । [सां. त. तदेतत् सर्वमभिप्रेत्याह--" तद्विपरीतः श्रेयान् , व्यक्ताव्यक्तज्ञविज्ञानात्"
___ इति । तस्मात् (भानुश्रविकात् दुःखापघातकोपायात् (१४) लौकिकवैदिको सोमपानादेरविशुद्धात् अनित्यसातिशयफलात् ) पायेभ्यः शास्त्रविषयज्ञा- विपरीतः विशुद्धः हिंसादिसङ्कराभावात् , नित्यनिरनस्य श्रेयस्त्वप्रदर्शनम् ॥ तिशयफलः, असकृत् पुनरावृत्तिश्रुतेः । न च
कार्यत्वेनानित्यता फलस्य युक्ता, भावरूपस्य कार्यस्य तथाभावात् , दुःखप्रध्वंसनस्य तु कार्यस्यापि तद्वैपेरीत्यात् । न च दुःखान्तरोत्पादः, कारणाप्रवृत्तौ कार्यस्यानुत्पादात् , विवेकज्ञानोपजननपर्यन्त. त्याच्च कारणप्रवृत्तेः । एतच्चोपरिष्टादुपपादयिष्यते ॥ अक्षरार्थस्तु-तस्मात् (भानुश्रविकात् दुःखापघातकात् हेतोः ) विपरीतः
(सत्वपुरुषान्यताप्रत्ययः साक्षात्कारो ) दुःखापघा. (१५) “ तद्विपरीतः तको हेतुः, अत एव श्रेयान् । भानुश्रविको हि वेदश्रेयान्" इत्यस्याक्षरार्थः। विहितत्वात् मात्रया दुःखापघातकत्वाच्च प्रशस्यः ।
सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः । तदनयोः प्रश. स्ययोर्मध्ये सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् ॥ कुतः पुनरस्योत्पत्तिरित्यत आह- " व्यक्ताव्यक्तज्ञविज्ञानात्" इति ।
__ व्यक्तं च अव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां (१६) शास्त्रविषयस्य विज्ञानम् विवेकेन ज्ञानम् , व्यक्ताव्यक्तज्ञविज्ञानम् । दुःखापघातकस्य तत्त्वज्ञा व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम् । तयोश्च नस्योत्पत्तिप्रदर्शनम् ॥ पारायेंनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधा
नम् । एतदुक्तं भवति--श्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा, शास्त्रयुक्त्या च व्यवस्थाप्य दीर्घकालादरनरन्तर्य. सत्कारसेवितात् भावनामयात् विज्ञानादिति । तथा च वक्ष्यति--
१ अनित्यत्वात् । २ अभावरूपत्वात् । ३ (६६ ) कारिकायाम् । ४ व्यक्ताव्यक्तयोः परार्थत्वेन । व्यक्ताव्यक्ते अचेतने कस्यचिच्चेतनस्यार्थाय वर्तेते स च चेतन आत्मेत्यादिक्रमेण ।