________________
सांख्यशास्त्रस्य प्रामाणिकत्वम् । [सां. त. प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८ ॥ "प्राप्ते" इति । अनारब्धविपाकानान्तावत् कर्माशयानां तत्त्वज्ञानाग्निना बीजभावो दग्धः । प्रारब्धविपाकानान्तूपभोगेन क्षये सति, “प्राप्ते, शरीरभेदे " इति-विनाशे-" चरितार्थत्वात् " इति-कृतप्रयोजनत्वात् । प्रधानस्य तम्पुरुषम्प्रति विनिवृत्तौ-“ ऐकान्तिकम् "अवश्यम्भावि “ आत्यन्तिकम् "= अविनाशि-इत्युभयं “कैवल्यम् ” दुःखत्रयविगमम्प्राप्नोति पुरुषः ॥ ६८ ॥ ( २७६ ) सांख्यशास्त्र प्रमाणेनोपपादिते ऽप्यत्यन्तश्रद्धोत्पादनाय परस्य परमर्षिप्रणीतत्वम् मर्षिपूर्वकत्वमाह
पुरुषार्थज्ञानमिदं गुह्यम्परमर्षिणा समाख्यातम् । स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ॥ ६९ ॥ "पुरुष ” इति । “ गुह्यम् ” गुहानिवासि, स्थूलधियां दुर्बोधमिति यावत् । “परमर्षिगा" कपिलेन तामेव श्रद्धामागमिकत्वेन द्रढयति" स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् ” इति । 'यत्र ' ज्ञाने यदर्थम् , यथा 'चर्मणि द्वीपिनं हन्ति ' इति । “ भूतानाम् " = प्राणिनां " स्थित्युत्पत्तिप्रलयाः " आगमैः " चिन्त्यन्ते " ॥ ६९ ॥ ( २७७ ) सांख्यशा- स्यादेतत्-" यत् परमर्षिणा साक्षात्कथितम् तच्छस्त्रस्य गुरुशिष्यपरम्परा बधीमहि, यत्पुनरीश्वरकृष्णेन कथितम् तत्र कुतः कपिलादारभ्य पञ्चशिख- श्रद्धा? "-इत्यत आहपर्यन्तम् ॥
एतत् पवित्रमग्न्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतन्तन्त्रम् ॥ ७० ॥
" एतत् ” इति । " एतत् पवित्रम् " पावनम्- दुःखत्रयहेतोः पाप्मनः पुनातीति-" अग्न्यम् "= सर्वेभ्यः पवित्रेभ्यो मुख्यम्, “ मुनिः ” कपिलः