________________
कौ. ७१-७२ ] गुरुशिष्यपरंपरा । आसुरये ऽनुकम्पया प्रददौ, आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतं तन्त्रम् " ॥ ७० ॥
शिष्यपरम्परया ऽऽगतमीश्वरकृष्णेन चैतदार्याभिः ।
संक्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ।। ७१ ॥ (२७८ ) ईश्वरकृष्णस्य “शिष्य " इति । आरात् याता तत्त्वेभ्य इत्यार्या, गुरुशिष्यपरम्परा ॥ आर्या मतिर्यस्य सो ऽयम् “आर्यमतिः” इति ॥ ७१ ॥ ( २७९ ) सप्ततिकारि- एतच्च शास्त्रम् , मकलशास्त्रार्थसूचकत्वात् , न तु काणां शास्त्रत्वम् ॥ प्रकरणमित्याहसप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥ ७२ ॥ " सप्तत्याम् ” इति । तथा च राजवार्तिकम् ॥ "प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारार्थ्यं च तथाऽनैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश । विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः॥ करणानामसामर्थ्यमष्टाविंशतिधा मतम् ।
इति षष्टिः पदार्थानामष्टभिः सह सिद्धिभिः" ॥ इति ॥ सेयं षष्टिपदार्थी कथितेति सकलशास्त्रार्थकथनानेदम्प्रकरणमपि तु शास्त्रमेवेदमिति सिद्धम् । एकत्वमर्थवत्त्वम् पारार्थ्यञ्च प्रधानमधिकृत्योक्तम् । अन्यत्वमकर्तृत्वम् बहुत्वञ्चति पुरुषमधिकृत्य । अस्तित्वम् वियोगे योगश्चेत्युभयमधिकृत्य । वृत्तिः स्थितिरिति स्थूलसूक्ष्ममधिकृत्य ।। ७२ ॥
मनांसि कुमुदानीव बोधयन्ती सतां सदा। श्रीवाचस्पतिमिश्राणां कृतिः स्तात् तत्त्वकौमुदी॥ इत्यखिलतन्त्रापरतन्त्रप्रतिभद्वादशदर्शनटीकाकुच्छ्री
मद्वाचस्पतिमिश्रकृता सांख्यतत्वकौमुदी ॥