________________
७८ मुक्तपुरुषम्प्रति प्रधानस्य प्रवृत्त्यभावः । [सां. त. निवृत्त्या च सप्तरूपाणि निवर्तन्त इति “ सप्तरूपविनिवृत्ता प्रकृतिः " “ अवस्थित" इति निष्क्रियः, “स्वच्छः” इति रजस्तमोवृत्तिकलुषया बुद्धया ऽसम्भिन्नः । सात्त्विक्या तु बुद्धया तदा ऽप्यस्य मनाक् सम्भेदो ऽस्त्येव, अन्यथैवम्भूतप्रकृतिदर्शनानुपपत्तेरिति ॥ ६५ ।।
स्यादेतत्-'निवृत्तप्रसवामिति न मृण्यामहे । संयोगकृतो हि सर्ग इत्युक्तम् , (२७१) एकविषयम- योग्यता च संयोगः, भोक्तृत्वयोग्यता च पुरुषस्य पेक्ष्य निवृत्ताया अपि चैतन्यम् , भोग्यत्वयोग्यता च प्रकृतेर्जडत्वम् विषयप्रकृतर्विषयान्तरं प्रति त्वञ्च । न चैतयोरस्ति निवृत्तिः । न च करणीयाप्रवृत्तिशङ्का ॥ भावानिवृत्तिः, तज्जातीयस्यान्यस्य करणीयत्वात् पुनः पुनः शब्दाद्युपभोगवत्।'-इत्यत आह
दृष्टा मयेत्युपेक्षक एको, दृष्टा ऽहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनन्नास्ति सर्गस्य ॥ ६६ ॥ " दृष्टा " इति । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगम्प्रकृतिर्यया विवेक
ख्यातिर्न कृता, कृतविवेकख्यातिस्तु शब्दाद्युपभोगन्न (२७२ ) तन्निरासः ॥ जनयति । अविवेकख्यातिनिबन्धनो हि तदुपभोगो,
निबन्धनाभावे न तद्भवितुमर्हति, अंकुर इव बीजाभावे । प्राकृतान् हि सुखदुःखमोहात्मनः शब्दादींस्तदविवेकात् 'ममैतत् ' इत्यभिमन्यमान आत्मा भुञ्जीत । एवं विवेकख्यातिमपि प्राकृतीमविवेकादेवात्मा 'मदर्थेयम् ' इति मन्यते । उत्पन्नविवेकख्यातिस्तु तदसंसर्गाच्छब्दादीनोपभोक्तु. महति नापि विवेकख्यातिम्प्राकृतीमपि कर्तुम् । ततो विविक्त' आत्मा न स्वार्थमभिमन्तुमर्हति पुरुषाथों च भोगविवेकौ प्रकृत्यारम्भप्रयोजकावित्यपुरुषार्थों सन्तौ न प्रकृति प्रयोजयतः । तदिदमुक्तम्-"प्रयोजनम्नास्ति सर्गस्य " इति । अथ प्रयुज्यते सर्गे प्रकृतिरनेनेति प्रयोजनम् , तदपुरुषार्थे नास्तीत्यर्थः ॥ ६६ ॥
१. उत्पन्नविवेकख्यातिः