________________
को. ६४-६५] तत्त्वज्ञानस्वरूपकथनम् । ज्ञानस्वरूपमुक्तम् - " नास्मि, न मे, नाहम्” इति । 'नास्मि' इस्या
रमनि क्रियामात्रनिषेधति । यथाहुः ‘कृभ्वस्तयः (२६८) तत्त्वज्ञानस्वरूप- क्रियासामान्यवचनाः' इति [सिद्धान्तकौमुदी.] । प्रदर्शनम्-सर्वविधाहका- तथा चाध्यवसायाभिमानसङ्कल्पालोचनानि चान्तराणि रनिवृत्तिः ॥ बाह्याश्च सर्वे व्यापारा आत्मनि प्रतिबद्धानि बोद्ध
व्यानि। यतश्चात्मनि व्यापारावेशो नास्त्यतो 'नाहम्'। अहमिति कर्तपदम् , अह जानाम्यहं जुहोम्यहन्ददे' इति सर्वत्र कर्तुः परामर्शात् । निष्क्रियत्वे च सर्वत्र कर्तृत्वाभावः । ततः सुष्ठूक्तम्- " नाहम् ' इति । अत एव " न मे" । कर्ता हि स्वामितां लभते, तस्मात् कुतः स्वाभाविकी स्वामितेत्यर्थः । अथवा “ नास्मि" इति “ पुरुषो ऽस्मि, न प्रसवधर्मा"। भप्रसवधर्मित्वाचाकर्तृत्वमाह-" नाहम्” इति । अकर्तृत्वाच्च न स्वामितेत्यत माह-" न मे" इति ॥ ___ ननु ‘एतावत्सु ज्ञातेष्वपि कश्चित् कदाचिदज्ञातो विषयो ऽस्ति, तदज्ञान
जन्तून् बन्धयिष्यति' इत्यत आह-" भपरिशेषम् " (२६९) तत्त्वज्ञानस्या- इति । नास्ति किञ्चिदस्मिन् परिशिष्टम् ज्ञातव्यम् परिशेषत्वम् ॥ यदज्ञानं बन्धयिष्यतीत्यर्थः ॥ ६४ ।। (२७०) तत्त्वसाक्षात्कार- किं पुनरीदृशेन तत्त्वसाक्षात्कारेण सिध्यतीत्यत फलम् ॥
माहतेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् । प्रकृतिम् पश्यति पुरुष: प्रेक्षकवदवस्थितः स्वच्छः ॥ ६५॥
"तेन” इति । भोगविवेकसाक्षात्कारौ हि प्रकृतेः प्रसोतन्यौ। तौ घ प्रसूताविति नास्याः प्रसोतव्यमवशिष्यत इति निवृत्तप्रसवा प्रकृतिः । विवेकज्ञानरूपो यो ऽर्थस्तस्य वशः सामर्थ्यम् तस्मात् । अतत्वज्ञानपूर्वकाणि खलु धर्माधर्माज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि । वैराग्यमपि केवलतौष्टिकानामतस्वज्ञानपूर्वकमेव । तत्र तत्त्वज्ञानं विरोधिस्वेनातत्त्वज्ञानमुग्छिनत्ति । कारण
१. 'नाहमिति ' तादात्म्यनिषेध इति केचित् २. “ सुस्थ” इति पाठान्तरम् । ३. विशुद्धकेवलज्ञानेनेति यावत् ।