________________
७.
तत्त्वज्ञानोत्पत्तिकथनम् ।
सां, त. भवगतमीदृशं तस्वम् , ततः किमित्यत आहएवन्तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
" एवम्” इति । तत्त्वेन विषयेण तत्त्वज्ञानमुपलक्षयति । उक्तरूपप्रका(२६५) अभ्यासातत्वज्ञा- रतत्त्वविषयज्ञानाभ्यासादादरनैरन्तर्यदीर्घकालसेवितात नोत्पत्तिः ॥
सत्वपुरुषान्यतासाक्षात्कारिज्ञानमुत्पद्यते। यद्विषयश्चा
भ्यासस्तद्विषयकमेव साक्षात्कारमुपजनयति, - तत्त्ववि. षयश्वाभ्यास इति तत्त्वसाक्षात्कारं जनयति । अत उक्तम् - " विशुद्धम्" इति ॥ कुतो विशुद्धमित्यत आह-“अविपर्ययात् " इति । संशयविपर्ययौ हि
. ज्ञानस्याविशुद्धी, तद्रहितम् विशुद्धम्तदिदमुक्तम्( २६६ ) तत्त्वज्ञानस्य विशुद्धिहेतुः अविपर्यय
__"अविपर्ययात" इति । नियतमनियततया गृह्णन् त्वम् ॥
संशयो ऽपि विपर्ययः, तेन ‘अविपर्ययात् ' इति
संशयविपर्ययाभावो दर्शितः । तत्त्वविषयस्वाश्च संशयविपर्ययाभावः ॥
स्यादेतत् - ' उत्पद्यतामीदृशाभ्यासात् तत्त्वज्ञानम् , तथा ऽप्यनादिना (२६७) अनादेर्मिथ्या- मिथ्याज्ञानसंस्कारेण मिथ्याज्ञानं जनयितव्यम् तथा ज्ञानसंस्कारस्यादिमत्या च तन्निबन्धनस्य संसारस्यानुच्छेदप्रसङ्ग इत्यत उक्तम्तत्त्वज्ञानसंस्कारेण “केवलम्" इति=विपर्ययणासम्भिनम् । यद्यप्य समुच्छेदः ।। नादिविपर्ययवासना तथा ऽपि तत्त्वज्ञानवासनयातत्त्वविषयसाक्षात्कारमादधत्या ऽऽदिमत्या ऽपि शक्या समुच्छेत्तुम् । तत्त्वपक्ष- . पातो हि धियां स्वभावः, यदाहुर्बाह्या अपि
" निरुपद्रधभूतार्थस्वभावस्य विपर्ययैः । न बाधो ऽयस्नयस्वे ऽपि बुद्धस्तत्पक्षपाततः" इति ।।