________________
कौ. ६२-६३] बन्धमोक्षयोः प्रकृतिपरत्वम् ।
७५ स्यादेतत्-“ पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः ? मुचंबन्धनविश्ले
षार्थत्वात् , सवासनक्लेशकर्माशयानाञ्च बन्धनसमा( २६२ ) निर्गुणपुरुषमो. ख्यानां पुरुषे ऽपरिणामिन्यसम्भवात् । अत एवास्य च क्षसंसाराद्यसम्भवशङ्का ॥ पुरुषस्य न संसारः प्रेत्यभावापरनामाऽस्ति, निष्क्रि.
यत्वात् । तस्मात् 'पुरुषविमोक्षार्थम् ' इति रिक्तं वचः"-इतीमां शङ्कामुपसंहारव्याजेनाभ्युपगच्छन्नपाकरोति ॥
तस्मान्न बध्यते ऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥ " तस्मात् ” इति । अद्धा न कश्चित् पुरुषो बध्यते, न कश्चित् संसरति:
न कश्चिन्मुच्यते । प्रकृतिरेव तु नानाश्रया सती ( २६३ ) तत्परिहारः- बध्यते संसरति मुच्यते चेति । बन्धमोक्षसंसाराः पुरुषेप्रकृतिगतानां संसारा- खूपचर्यन्ते यथा जयपराजयौ भृत्यगतावपि स्वामिदीनां पुरुषे उपचारः।। न्युपचर्येते, तंदाश्रयेण भृत्यानान्तद्भागित्वात् , तत्फ
लस्य च शोकलाभादेः स्वामिनि सम्भवात् । भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषसम्बन्ध उपपादित इति सर्वम्पुष्कलम् ॥ ६२॥
नन्ववगतम् ‘प्रकृतिगता बन्धसंसारापवर्गाः पुरुषे उपचर्यन्ते' इति । (२६४) प्रकृत्या धर्मादि- किंसाधनाः पुनरेते प्रकृतेः ? इत्यत आहसप्तरूपैबन्धनमेकरूपेण तत्त्वज्ञानरूपेण च मोक्षणम् ॥
रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
" रूपैः” इति । तत्त्वज्ञानवर्ज बध्नाति धर्मादिभिस्सप्तभी रूपैर्भावैरिति । " पुरुषार्थम्प्रति" भोगापवर्गम्प्रति “आत्मनाऽऽत्मानम् ” एकरूपेण तत्वज्ञानेन विवेकख्यात्या विमोचयति, पुनर्भोगापवर्गों न करोतीत्यर्थः ॥ ६३ ।।
१. 'आत्मना' बुद्धिरूपेण, 'आत्मानम् ' पुरुषमिति चन्द्रिका ।