________________
प्रकृतेरात्यन्तिकी निवृत्तिः। [सा. त. पुरुषान्तराणि न पुनः पश्यन्ति,-एवम्प्रकृतिरपि कुलवधूतो ऽप्यधिका दृष्टा विवेकेन न पुनद्रक्ष्यत इत्यर्थः ॥ ६१ ॥
भाष्यस्यादिमे भाग एवं पठ्यते--'अहमनेन पुरुषेण दृष्टाऽस्मीत्यस्य पुंसः पुनदर्शनं नोपैति, पुरुषस्यादर्शनमुपयातीत्यर्थः । तत्र सुकुमारतरं वर्णयति--' एतदनन्तरं भाष्यचरमभागः--'न पुनदर्शनमुपयाति पुरुषस्य' इति पठनीयः। 'सुकुमारतरं वर्णयति' इत्यनन्तरं 'केचिदीश्वरं कारणं ब्रुवते' इत्यादिपाठस्तु नितरामसङ्गत एव । नहीश्वरादीनां कारणत्वं प्रकृतेः सुकुमारतरत्ववर्णनम् । अतो रुवं केनचिदीश्वरनिरासासहि. ष्णुना कारिकेयं लोपिता । अन्येन च केनचिद्वराकेण भाष्यमेतन्मूलकारिकाविहीनमिति मत्वा तथैकषष्टितमकारिफाभाष्यान्तनिवेशितं यथा स्थूलदर्शनैरपि विभाव्यते । अत एव 'न पुनदर्शनमुपयाति पुरुषस्य' इत्येतदनन्तरं तेन 'अत प्रकृतेः सुकुमारतरं सुभोग्यतरं न किञ्चिदीश्वरादिकारणमस्तीति मे मतिर्भवति' इति सङ्गत्यर्थ प्रक्षिप्तम् । यथा च नैतत्सङ्गच्छते तथा स्फुटमेव । परं च, ईश्वरादीना सुभोग्यत्वादिकथनमपि भृशमनर्थकम् । एवं माठरवृत्तावपि यथाकथञ्चित् संग्रन्थनमेव । अतो वाचस्पत्यादीनां पुरत एव लुप्तेयं कारिका ।
यस्तु ‘ननु ईश्वरनिरासासहिष्णुत्वं कारिकाविलोपे प्रयोजकं चेत्, कथं नाम तद्भाष्यविलोपे प्रयोजकं न स्यात् ' इति सूर्यनारायणशाख्यभिप्रायस्तत्र ब्रूमः-- यस्य खलु कुटिलमतेः स्वानभिमतेयं कारिका दृष्टिपथं याता, न तस्य भाष्यं दृग्गोचरी. भूतमिति सम्भाव्यते । न खलु भाष्यकारिकयोरव्यभिचारि सहावस्थानं, येन कारिकां निस्सारयन् भाष्यमपि बहिः कुर्यात् । भाष्यं चास्मद्भाग्यवशान्न तद्धस्ते पतितम् । अतस्तादृशकुटिलमत्यनन्तरभाविभिलेखकैलेखकेन वा मूलकारिकाविहीनं भाष्यमेतद्विलोक्य यथाकथञ्चिदेकषष्टितमकारिकाभाष्ये नियोजितमिति राद्धान्तः ॥
अधुनापि प्राचीनहस्तलिखितपुस्तकेषु मूलग्रंथः टीकाग्रंथश्च पृथक् पृथक् लेखनावस्थितित्वेन दृश्येते । तेन मूलग्रंथस्थिता कारिका च्यावितैव । भाष्यग्रंथस्य तत्समये अप्राप्तत्वात् भाष्यस्य अद्यापि स्थितिरस्ति । [ हरदत्तशर्मा ]