________________
कौ. ६१] प्रकृतेरात्यन्तिकी निवृत्तिः।
स्यादेतत्- नर्तकी नृत्यम्परिषद्भयो दर्शयित्वा निवृत्ताऽपि पुनस्तदृष्टिकौतू(२६१) विवेकख्यात्यन- हलात् प्रवर्तते यथा, तथा प्रकृतिरपि पुरुषार्थायात्मानं न्तरम् प्रधानस्यात्य- दर्शयित्वा निवृत्ता ऽपि पुनः प्रवर्त्यति' इत्यत न्तिकी निवृत्तिः॥ आह
प्रकृतेः सुकुमारतरन्न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टा ऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥'
" प्रकृतेः " इति । सुकुमारतरता ऽतिपेशलता, परपुरुषदर्शनासहिष्णुतेति यावत् । असूर्यम्पश्या हि कुलवधूरतिमन्दाक्षमन्थरा प्रमादाद्विगलितसिचयाचला चेदालोक्यते परपुरुषेण, तदा ऽसौ यथा प्रयतते, अप्रमत्ता यथैनां पर
१.-अस्याः कारिकाया अनन्तरमेवान्ययैकया कारिकया भवितव्यमिति स्वर्गतस्य तिलकान्वयजस्य बालगङ्गाधरपण्डितस्य सिद्धान्तः । तत्संक्षेपस्तु-- ___ " "सप्तत्यां किल येऽर्थाः' इतीश्वरकृष्णवचनानुरोधेनार्याणा सप्तन्या भाव्यम् । किन्तु गौडपादभाष्ये त्वेकोनसप्ततिरेवोपलभ्यते । भाष्यं चैकषष्टितमाया उपरि नैकस्या अपि तु कारिकयोः । अत एकषष्टितमाया अनन्तरमेवानया लुप्तया कारिकया भाव्यम् । भाष्यगतप्रतीकानुरोधेन चैषा कारिकैवं निर्मातुं शक्यते--
कारणमीश्वरमेके ब्रुवते कालं परे स्वभावं वा ।
प्रजाः कथं निर्गुणतो व्यक्तः कालः स्वभावश्च ॥ अस्ति चास्याः कारिकायाः पूर्वापरसन्दर्भसङ्गतिः । निरीश्वरत्वप्रतिपादकत्वाच्च केनचिदसहिष्णुना च्यावितेयम् । किन्तु भाष्यच्यावनमसौ विस्मृतवान् । पूर्वेषां मते स्वभावस्य, कालस्य ईश्वरस्य वा जगन्मूलत्वमिति श्वेताश्वतरमन्त्रेण द्योत्यते
स्वभावमके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते बाह्यचक्रम् ॥ " इति अस्या नष्टायाः कारिकायाः पूर्वार्द्धमस्मन्मतानुसारेण त्वेवं पठनीयम् |--
कारणमीश्वरमेके पुरुषं कालं परे स्वभावं वा ।' सूर्यनारायणशास्त्रिणा च कृतमेतत्कारिकारखण्डनं न सयुक्तिकम् । तन्मतानुरोधेनैकषष्टितमकारिकाया भाष्यस्यान्तिमे कृतः, वृतौ च माठरेण कृतः सुकुमारतरमितिशब्दस्य परामर्शः, प्रकृतकारिका विहायान्यस्याः कारिकाया भाष्यवृत्त्योः सम्भावनां निराकरोति । एतदत्र विचारणीयम्--