________________
प्रधाननिवृत्तिप्रकारः।
[सां. तं. ___ "औत्सुक्य-" इति । औत्सुक्यमिच्छा, मा खल्विष्यमाणप्राप्तौ निव. तते । इष्यमाणश्च स्वार्थः, इष्टलक्षणत्वात् फलस्य । दान्तिके योजयति"पुरुषस्य विमोक्षार्थम्प्रवर्तते तद्वदव्यक्तम्” इति ॥ ५८ ॥
ननु भवतु पुरुषार्थः प्रकृतेः प्रवर्तकः, निवृत्तिस्तु कुतस्त्या प्रकृतेः (२५९) विवेकख्यात्य- इत्यत माहनन्तरम् प्रधाननिवृत्तिः॥
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथा ऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९॥
" रङ्गस्य" इति, स्थानेन स्थानिनः पारिषदानुपलक्षयति । 'आत्मानम् ' शब्दाद्यात्मना पुरुषाद्भेदेन च प्रकाश्येत्यर्थः ॥ ५९॥
स्यादेतत्-'प्रवर्तताम्प्रकृतिः पुरुषार्थम् । पुरुषादुपकृतात्प्रकृतिर्लप्स्यते कश्चि(२६०) गुणवत्याः प्रकृतेः दुपकारम् , आज्ञासम्पादनाराधितादिवाज्ञापयितुर्भुप्रत्युपकारं विनैव जिष्या। तथा च न परार्थोऽस्या भारम्भः' -इत्यत पुरुषोपकारः ।। आह
नानाविधैरुपायैरुपकारिण्यनुपाकरिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकञ्चरति ॥ ६ ॥
" नाना-" इति । यथा गुणवानुपकार्यपि भृत्यो निर्गुणे ऽत एवानुपकारिणि स्वामिनि निष्फलाराधनः, एवमियम्प्रकृतिस्तपस्विनी गुणवत्युपकारिण्यनुपकारिणि पुरुषे व्यर्थपरिश्रमेति पुरुषार्थमेव यतते न स्वार्थमिति सिद्धम् ॥ ६० ॥