________________
कौ. ५७-५८] ईश्वराधिष्ठाने दोषाः । ___"वत्सविवृद्धि निमित्तम्” इति । दृष्टमचेतनमपि प्रयोज-म्प्रवर्तमानम् , ( २५५) तत्परिहारः- यथा वत्मविवृद्धयर्थं क्षीरमचेतनम् प्रवर्तते । एवक्षीरप्रवृत्तिवत्तस्याः प्र. प्रकृतिरचेतना ऽपि पुरुषविमोक्षणाय प्रवर्तिष्यते ॥ वृत्तिः ॥ न च-क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिबन्धनत्वेन साध्यत्वान्न साध्यव्यभि
चार' इति, साम्प्रतम्प्रेक्षावतः प्रवृत्तेः स्वार्थकारु( २५६ ) ईश्वराधिष्ठित- ण्याभ्यां व्याप्तत्वात् । ते च जगत्सर्गाव्यावर्तमाने प्रेक्षाप्रधानसृष्टौ दोषाः ॥ वत्प्रवृत्तिपूर्वकस्वमपि व्यावर्तयतः । न ह्याप्तसकले.
प्सितस्य भगवतो जगत् सृजतः किमप्यभिलषितम्भवति । नापि कारुण्यादस्य सर्गे प्रवृत्तिः, प्राक् सर्गाजीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् ? सर्गोत्तरकालं दुःखिनो ऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वन्दूषणम् ,-कारुण्येन सृष्टिः सृष्टया च कारुण्यमिति । अपि च करुणया प्रेरित ईश्वरः सुखिन एव जन्तून् सृजेन्न विचित्रान् । 'कर्मवैचित्र्याद्वैचित्र्यम्' इति चेत्-कृतमस्य प्रेक्षावतः कर्माधिष्ठानेन, तदनधिष्ठानमात्रादेवाचेतनस्यापि कर्मणः प्रवृत्यनुपपत्तेस्तत्कार्यशरीरोन्द्रियविषयानुत्पतौ दुःखानुत्पत्तेरपि सुकरस्वात् ॥ __प्रकृतेस्त्वचेतनायाः प्रवृत्तेर्न स्वार्थानुग्रहो न वा कारुण्यम्प्रयोजकमिति ( २५७ ) प्रकृतिसृष्टी
नोक्तदोषप्रसङ्गावतारः । पारायं मात्रन्तु प्रयोजकमुप
पद्यते । तस्मात् सुष्ठूक्तम् - " वत्सविवृद्धिनिमित्तम्' तद्दोषा भावः ॥
इति || ५७ ॥
" स्वार्थ इव" इति दृष्टान्तितम् [ कारिका. ५६ ] तद्विभजते( २५८ ) पुरुषविमोक्षार्थम् प्रधानस्य प्रवृत्तिः ॥
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । ' पुरुषस्य विमोक्षार्थे प्रवर्तते तद्वदव्यक्तम् ॥ ५८ ॥