________________
तृत्वचिन्तामो व्याप्ति नाङ्गीकरोति तं प्रति तद्दषकत्वं प्रसाध्य पञ्चावयवप्रयोगः कर्तव्य एव । यत्तु दूषणे पक्षधर्मातामात्रमुद्भाव्यं तच, यत्र वादिनोस्तथा समयोऽन्यत्र तु पञ्चावयवप्रयोग एवेति । तन्न । कथासम्प्रदायविरोधात् । अथासाधकत्वं न पक्षे साध्यप्रत्ययाजनकत्वं । तेनापि तत्त्वेनाज्ञानदशायां पक्षे साध्यभ्रमजननात् कदाचिदजनकत्वं सद्धेतावपि। नन्वेतत्काले साध्यविशिष्टपक्षवानाजनकं तत्, न हि दूषणत्वज्ञानदशायां पक्षे भ्रमरूपाप्यनुमितिः, साध्यविशिष्टपक्षज्ञानश्च हेतुत्वेन ज्ञानदशायां प्रसिद्धमिति चेत्, न, सङ्घता
भ्युपगमाभावे व्याघातोऽस्तु दोषो न वभ्युपगमनियम इत्यत आह, 'यस्विति यस्तु व्याप्तिभावानङ्गीकर्ता चार्वाकादिः, 'बाधस्य' दोषमाचस्य, 'दूषकत्वम्' असाधकत्वव्याप्यत्वं, प्रसाध्य' व्याघातेनैव, 'प्रयोगइत्यनन्तरं समाचार इति शेषः । तेनासिद्धिरुत्तरं घटते अन्यथा पञ्चावयवप्रयोगः कर्तुमर्हतीत्युक्तौ समाचारविरोधी नोत्तर घटते अनईताया अत्र युक्रवादित्यवधेयं । हेतुत्वेनेत्युपलक्षणं हेत्वन्तरेण प्रसिद्धमित्यपि द्रष्टव्यं। अन्यथा वहिमानयं वन्हिविरहादित्यादौ हेतुत्वन्धमस्याप्यभावादसङ्गत्यापत्तेरिति । विशेषणत्वलये सिद्धान्तएवेति वकालस्योपलक्षणत्वपचमालम्ब्य दृषयति, 'मद्धेताविति ।
— (१) नन्वसाधकत्व मिति ख, ग ।