________________
६५
तत्वचिन्तामणौ
तां विना तदभावादिति सैव दोषइति चेत्, सत्यं, किन्तु साधाभावप्रमा व्यभिचारज्ञानत्वेन दृषिका कृप्तत्वात् न तु स्वतन्त्रा, अत एव पक्षे साध्याभावज्ञानत्वेन प्रतिबन्धकत्वं न तु साध्याभावसमानाधिकरणसाधनज्ञानत्वेनेति प्रत्युक्तं, तस्य लघुत्वेऽप्यस्कृप्तत्वात् । अथ प्रत्यक्षादी प्रमामाचं प्रति स्वातन्त्र्येण बाधादोषत्वेन कृप्तइत्यनुमितावपि स एव दोषइति चेत्, न, तर्हि हेत्वाभासः अनुमित्यसाधारणदोषस्य त
व्यभिचारे माध्याभाववत्पत्तिहेतरिति विशिष्टवैशियबोधात्मकव्यभिचारनिश्चये, ‘माध्याभावप्रमेति पचे माध्याभावप्रकारकप्रमेत्यर्थः, 'तां विनेति, विशिष्टवैशिध्यबोधं प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य हेतुत्वादिति भावः । 'साध्याभावप्रमेति साध्याभाववत्यक्षवृत्तिईतरिति व्यभिचारनिश्चयरूपा फलौभता साध्याभावप्रमैवेत्यर्थः, 'न तु स्वतन्त्रेति न तु कारणीभूता माध्याभावप्रमेवेत्यर्थः, 'माध्याभावज्ञानत्वेन' साध्याभावप्रकारकनिश्चयत्वेनेत्यर्थः, 'प्रतिबन्धकत्वमिति फलीभूतव्यभिचारनिश्चयस्थ प्रतिबन्धकत्वमित्यर्थः, 'प्रमामाचं प्रतौति पक्षविशेष्यक माध्यविशिष्टानुभवं प्रतीत्यर्थः, 'खातन्त्र्येण' साध्याभाववत्यक्षनिश्चयत्वेन, 'बाधः' माध्याभाववत्यक्षनिश्चयः, 'सएव दोषः' म दोष एव, 'न तौति तहि न हेत्वाभास इति योजना, 'अनुमित्यसाधारणेति अनुमिति-तत्कारणयोरसाधारणेत्यर्थः। नन्वनुमितिदोषत्वमेव हेत्वाभासत्वप्रयोजकं न तु तदसाधारणदोषत्व