________________
बाधपूर्वपक्ष। रित्युपजीव्यत्वाबाधः पृथक, अन्यथा हेवारसायकत्वे सिद्धे साध्यसिद्धिसम्भावनाविरहाद्यभिचारबुद्धिः तस्थाच सत्यां हेतोरसाधकत्वधीरित्यन्योन्याश्रयइति चेत् । न । साध्यसियुन्मुखहेतुज्ञानस्य प्रमितसाध्याभावसहचरितहेतुविषयत्वेन व्यभिचारज्ञानतयाऽदूषकत्वात् । तथापि व्यभिचारे साध्याभावप्रमा तन्त्र ज्ञानामम्भवादित्यर्थः, 'बाधेन' प्रमितसाध्याभाववत्यक्षात्मकबाधज्ञानेन, 'असाधकत्वे सिद्धे इति माध्यसिद्धिखरूपायोग्यत्वनिमयदत्यर्थः, 'उपजीव्यत्वात्' व्यभिचारज्ञानं प्रत्युपजीव्यत्वात्, 'पृथगिति, दोषइति शेषः, क्वचित् 'व्यभिचार सिद्धेरिति पाठः तत्र व्यभिचारमिद्धेबधेिनेति योजना व्यभिचारसिद्धेरसम्भवेनेत्यर्थः, 'हेतोरित्यस्य पूर्व बाधज्ञानादिति पूरणयं। ननु व्यभिचारज्ञानमेव हेतोः साध्यामाधकत्वनिश्चायकमस्वित्यत पाह, 'अन्यथेति व्यभिचारज्ञानस्यैव माध्यामाधकत्वनिश्चायक इत्यर्थः, 'सिद्धिसम्भावना' हेतोः माध्यमाधकत्वसम्भावना, 'तस्याञ्च' व्यभिचारबुद्धौ च । 'साध्यमियुन्मुखहेतु'ज्ञानस्येति माध्यमिद्धिस्वरूपयोग्यतया हेतुज्ञानस्येत्यर्थः, कचिदिति शेषः । अदूषकवादित्यकारप्रश्लेषः हेतौ माध्यमांधकत्वज्ञानस्य व्यभिचारज्ञानाप्रतिबन्धकत्वादित्यर्थः। न च पूर्ववर्तितयैव तज्ज्ञानं प्रतिबन्धकं न तु कार्यसहवर्तितयेति वाच्यं। पूर्व तत्सत्त्वेऽपि व्यभिचारज्ञानोदयान्मानाभावाञ्चेति भावः। शहते, 'तथापीति (९) तजज्ञानेऽयोति का।