________________
वाधपूर्वपक्षः।
१५५
हयाज्ञीतमिति कथं न सत्प्रतिपक्षत्वं गमकतावहिभूतञ्च न बलम् । अथ साध्याभावव्याप्यवृद्धेरनन्यथासिङ्घत्वं बलं, तदा ततः साधनवति पक्षे साध्याभावानुमितावनैकान्तिकत्वमेव पक्षे साध्याभावग्रहवदिति
तद्युतञ्च, 'ज्ञातमिति भावसाधनं दयोर्ज्ञानमेवेत्यर्थः। 'गमकताबहि तश्चेति अप्रामाण्यज्ञानाभावातिरिक्तश्चेत्यर्थः। न च यत्र माध्याभावव्याप्यवत्तापरामोऽप्रामाण्यज्ञानानास्कन्दितः . साध्यव्याप्यवतापरामर्शश्च तदास्कन्दितः तत्रैव बाधस्य दोषत्वमिति वाच्यं । तथा मति कारणाभावादेव माध्यानुमितेरसम्भवादलं बाधस्य दोषत्वेन अप्रामाण्यज्ञानानास्कन्दितपरामर्शस्यैवानुमितिजनकलादिति भावः। 'अनन्यथा सिद्धत्वमिति प्रामाण्यग्रहविशिष्टत्वमित्यर्थः, साध्यव्याप्यवत्तापरामर्शस्य तदभावविशिष्टत्वमेव दुर्बलत्वमिति शेषः । निश्चितप्रामाण्यकपरामर्शस्यैवानुमितिहेततया :प्रामाण्यग्रह-तदभावयोरेव बलाबलत्वादित्यभिमानः । अभिमानमभ्युपेत्यैव दूषयति, 'नदेति तदापौत्यर्थः, 'ततः' तत एव साध्यव्याप्यवत्तापरामर्शस्य प्रामाण्यज्ञानविरहादेवेति यावत्, ‘माधनवतौति माध्यव्याप्यसाधनवत्तया ज्ञात इत्यर्थः, 'साध्याभावानुमितौ' माध्याभावस्यैवानमित्युत्पादसम्भव इति यावत्, निश्चितप्रामाण्यकपरामर्शस्यैवानुमितिहेतुन्वाभ्युपगमादिति भावः । 'अनेकान्तिकत्वमेवेति निरुक्तबाधस्थाप्रतिबन्धकत्वमेव ।
प्राञ्चस्तु 'ततः' निश्चितप्रामाण्यकसाध्याभावव्याप्यवत्तापरामर्शतः;