________________
माधब्बैपक्षा
t
जातः प्रतिबन्धकइति न स हेत्वाभासः। वस्तुतस्तु उपनौतस्यांनमितो भाने मानाभावः प्रत्यभिज्ञादी च प्रतीतिबलेन तत्कल्पनम् अन्यथा :पूर्वोपस्थितसकल
काञ्चनमत्वावच्छिन्नप्रतियोगिताकवयभाव इत्यर्थः, अनुमिति विना विशिष्टस्याप्रमिया तदभावस्य ज्ञानासम्भवादिति भवतैवाभिधानात्। न चानुमित्यनन्तरं तदभावज्ञानसम्भव इति वाच्यं। तथा मति तस्यानुमितिप्रतिबन्धकवे मानाभावादिति भावः। ननु कपिदनुमितेः पूर्व विशिष्टस्याप्रसिद्धत्वेऽपि न सर्वत्र तदसिद्धिः । न च तथापि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य प्रागेव निराकृततया पर्वते काञ्चनमयवयभावस्यैवाप्रसिद्धत्वात् कथं तस्य दोषत्वमिति वाच्यं। तथापि पर्वतो वहिमान् धमादित्यादावुपनौतमहानसीयत्वादिविशिष्टवयनुमितेर्धमत्वप्रयोजकतया पर्वते तादृशवन्यभावस्य दोषत्वावश्यकत्वादित्यस्वरमाद्दोषान्तरमाह, 'वस्तुतस्विति, 'उपनौतस्येति पक्षतावच्छेदकव्यापकतावच्छेदकादिविधया परामर्शाविषयोभूतस्याप्युपनौतस्येत्यर्थः, बाधादिमहायं विनेति शेषः । नन्वेवं मोऽयमित्यादिप्रत्यभिज्ञादेरपौदन्वादिविशिष्टे उपनौततत्तादिवैशिष्यविषयकवे मानाभावः क्रमोत्पन्नज्ञानदयस्यैव तत्र सुवचत्वादित्यत श्राइ, 'प्रत्यभिज्ञेति, 'प्रतीतिबलेनेति(९) इदन्त्वादिविशिष्टे तत्तादिवैशियविषयकत्वस्थानुव्यवसायबलेनेत्यर्थः, (२) 'तत्कल्पन' दूद.
(१) प्रतीतिबलादितौति क, ख । .. (२) अनुव्यवसायवलादित्यर्थः इति, क, ख ।