________________
888
तत्त्वचिन्तामो
व्यभिचारज्ञानमित्यपजीव्यत्वाबाधः पृथक, पक्षे साध्याभावप्रतीतिरेव हि साध्याभाव-हेत्वोः सम्बन्धोल्लेखिनौत्येकवित्तिवेद्यत्वेन नोपजीव्यत्वम, अन्यथा बाध
भट्टाचार्यानुयायिनस्तु ननु यदि व्याप्तिनिश्चयसत्त्वे पचौयव्यभिचारसंशयो न प्रतिबन्धकस्तदा परामर्शात्तरं हेतुमति पत्रे माध्यमन्देहोत्पत्तावपि अनुमित्यापत्तिरित्यत पाइ, 'व्याप्तस्येति परामर्श-तजन्यानुमित्योः संशयप्रतिबन्धकवादित्यर्थः, तथाच परामौत्तरं माध्यसन्देहोत्पत्तिरेव न सम्भवतीति भावः । यद्यप्यनुमितेः संशयप्रतिबन्धकत्वाभिधानं नकतानुपयुक्तं तथापि फलतोऽपि परामर्शस्य संशयप्रतिबन्धकत्वबोधनाय दृष्टान्नतया वा तदभिधानं, 'अन्यथेति परामर्मस्य सन्देहविरोधित्वाभाव इत्यर्थः, 'संशयविरोधिता' प्रामाणिकानां संभयविरोधिताप्रवाद इत्याहुः ।
'पक्ष इति हेतो. माध्याभाववत्यक्षवृत्तित्वात्मकव्यभिचारज्ञानमित्यर्थः, 'बाधः' साध्याभाववत्यचज्ञानं, 'पृथगिति; अनुमितिप्रतिबन्धक इति शेषः, तथाच माध्याभाववत्पक्ष एव बाधो न तु प्रमात्वान्तर्भाव इति भावः । यद्ययुपजीव्यत्वेऽपि तब्जन्यव्यभिचारज्ञानमेव प्रतिबन्धकमावश्यकत्वादित्येव समाधानं सुकरं तथापि तदुपेक्ष्य उपजीव्यत्वमेव निराकरोति, ‘पक्ष इति, माध्याभाववत्पवज्ञानं विनापि विशेष्ये विशेषणमिति न्यायेन विशिष्टवैशिष्यबुड्युत्पत्तौ बाधकाभावादिति भावः । 'एकवित्तिवेद्यत्वेन' एकवित्तिखरूपत्वेन । ननु सर्वच बाधाहे हेतौ पक्षवृत्तित्वभाने मानाभाव इत्यत आह,