________________
तत्त्वचिन्तामो हि व्याप्ति-पक्षधर्माते बलमिति । प्रत्यक्षादेलिङ्गभावेनैवानुमानप्रतिरोधः कथायां तदुपन्यासानहत्वात् । .. यत्तु विरोधिव्याप्ययस्यासाधारणत्वात् संशयजनकत्वं दृषकतावीजमिति। तन्न। एकैकं हि सत्यतिपक्षं न तु विशिष्टं एकैकञ्च न संशायकमित्यनुमिति
इति माध्याभावव्याप्यत्वावच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावछिन्नविषयतावत्त्व-पक्षतावच्छेदकावच्छिन्नविषयतानिरूपितसाध्याभावव्याप्यत्वावच्छिन्नविषयतावत्त्व इत्यर्थः, तथाच तादृशविषयताशालिनिश्यत्वेनैव विरोधिपरामर्शस्य प्रतिबन्धकत्वं न तु माध्यविरोधिनिश्चयसामग्रोवेनेति भावः । ननु कथं तर्हि विपरीतप्रमा फरक्षकं चक्षुरादि प्रतिबन्धकतया कथायामुपन्यस्यत इत्यत आह 'प्रत्यक्षादेरिति चचुरादेरित्यर्थः, 'लिङ्गभावेनैव' लिङ्गताज्ञानेनै साध्याभावनिरूपितव्याप्ति-पक्षधर्मताज्ञानेनैवेति यावत्, ‘एवकाराक खरूपमञ्चक्षुरादिव्यवच्छेदः, अत्र हेतु: ‘कथायामिति खरूपमच्चाए रादेविरोधित्वे इत्यादिः। _ 'विरोधिव्याप्यवयस्येति मिलितस्येति शेषः, 'असाधारणत्वात्' मपक्ष-विपक्षव्यावृत्तत्वात्, 'दूषकतावीजमिति मत्प्रतिपक्षस्थलेऽनुमित्यनुत्पादवौजमित्यर्थः, संभयसामय्या निषयप्रतिबन्धकत्वादिति भावः । ‘सत्प्रतिपक्षमिति प्रतिबन्धकमित्यर्थः, 'न तु विशिष्टमिति न तु मिशितं हेतुइयमित्यर्थः, 'एकैकञ्चेति, साधारणबाभावा