________________
विरजपूर्वपक्षः। म विरुद्धं स्यात् साध्याभावाव्याप्यत्वात् । न च तत्साधा. रणं, सपक्षास त्वात्। न च साध्यसहचाराजानंदशायां साधारणतिव्याप्तिः, तदा तस्यापि विरुद्धत्वादितिप्राहुः । तन्न। विपक्षगामित्वं दूषकताप्रयोजकमित्युक्तात्वात्। अत एव व्यभिचरितो व्यतिरेक्यनै कान्तिक एव ।
नापि साध्याभावसाधकत्वं तत्पमापकत्वं वा, साध्याभावसम्बन्धबुद्धिं विना तदज्ञानात् । नापि साध्यवद
'सपक्षासत्त्वादिति निश्चितसाध्यवदवृत्तिवादित्यर्थः, निश्चितसाध्यवत्तिले मति माध्याभावववृत्तेरेव साधारणत्वादिति भावः । 'माधारणतिव्याप्तिरिति द्रव्यं सत्त्वादित्यादिसाधारणतिव्याप्तिरित्यर्थः, 'विपक्षगामित्वमिति, 'दूषकताप्रयोजक' साधारण्यरूपो दोषः, तथाच तहटिततया विशिष्टो न दोष इति भावः । ननु यदि तादृशविशिष्टो न विरोधस्तदा तदाश्रयस्य हेतोः कुत्रान्तर्भावइत्यत आह, 'श्रत एवेति 'यभिचरितः' साध्याभावसहचरितः, 'यतिरेको' अनवगतमाध्यमहचारकः।
‘साध्याभावसाधकत्वमिति साध्याभाववत्ताप्रतीतिविषयवृत्तित्वमित्यर्थः, एतच्च वयादौ माथे धूमादावण्यागतमत आह, तन्ममापकत्वं वेति माध्याभाववत्ताप्रमितिविषयवृत्तित्वमित्यर्थः, 'साध्याभावसम्बन्धेति हेतौ साध्याभावसामानाधिकरण्येत्यर्थः, 'तदज्ञानादिति तज्ज्ञानस्य व्याप्तिज्ञानाप्रतिबन्धकवादित्यर्थः, तथाच हवा