________________
७९८
तत्त्वचिन्तामणौ
भयं सत्यसाधकत्वात् अनापादकत्वाच्च। नाप्युभय
साध्यप्रसञ्जकत्वं,(२) अनुपसंहारिण: माध्यवत्ता जातत्तित्वेन माध्यप्रसञ्जकत्वं, माध्याभाववत्तया ज्ञातवृत्तित्वेन साध्याभावप्रसञ्जकत्वमित्यभिमानः। अत्र प्रसतिरनुमितिरापत्तिर्वा तज्जनकत्वञ्च न फलोपधायकत्वं फलानुपधायके अव्याप्यापत्तेः उभयव्याप्तिभ्रमेण तदुपधाय के सद्धेतावतिव्याप्यापत्तेः किन्तु तत्खरूपयोग्यता वाच्या खरूपयोग्यत्वञ्च तदुभयव्याप्यादिमत्त्वं तच्च न सम्भवति विरुद्धोभयव्याप्यत्वस्थ एकत्रासम्भवादित्याह, ‘एकस्येति, 'उभयं प्रति' विरुद्धोभयं प्रति, तेनैकस्य द्रव्यत्वादेः संयोग-तदभावोभयसाधकत्वेऽपि न क्षतिः, 'असाधकत्वात्' अनुमितिखरूपायोग्यत्वात्, 'अनापादकत्वात्' आपत्तिस्वरूपायोग्यत्वात् । 'उभयपक्षेति, ‘पक्षपदं धर्मिपरं, माध्यत्तित्वे मति माध्याभाववत्तित्वमित्यर्थः, 'उभयव्यावृत्तत्वमिति सपक्ष-विपक्षव्यावृत्तवमित्यर्थः, 'वाकारश्चार्थे, यावत्त्वेन सपक्ष-विपक्षौ विशेषणैयौ, तेन न धूमादावतिव्याप्तिः(२), इदमुप
(१) साध्यवद्यारत्तत्वे सति साध्याभाववद्यारत्तरूपस्यासाधारणम्य सा. ध्यवद्यारत्तत्वमेव साध्याभावव्यतिरेकासहचारित्वं, साध्याभाववद्यारत्तत्व मेव साध्यव्यतिरेकासहचारित्वं, तञ्च साध्य-तदभावोभयव्याप्यत्वरूपं तादृशव्याप्तिविशिष्ठस्य हेतोः साध्य-तदभावप्रसञ्जकत्वमिति भावः । पत्र पञ्चस अादर्शपुस्तकेषु सर्वत्र साध्याभावश्यतिरेकसहचारित्वेन इति पाठो वर्तते स न समीचीन इति ध्येयम् ।
(२) तथाच वकिमान् धूमादित्यादौ धूमस्य यत्किञ्चित्मपो भयोगोलके विपक्षे च व्यावतत्वेऽपि नासाधारणत्वमिति भावः ।