________________
अवयवः।
तयोश्चतुर्भिरेवावयवैः पर्याप्तेः किं तेनेति वाच्यम्। अबाधितासत्यतिपक्षितत्वयोरलाभे चतुर्णामप्यपर्यवसानात् । अथाभिधानाभिधेययायाप्ति-पक्षधर्मतावलिङ्गप्रतिपादनादेव पर्यवसानेनावयवान्तराणां निराकाङ्गत्वं विपरीतशङ्कानिहत्तेरपि तत एव लाभात्
निरूपिताखण्डजन्यत्वनिवेशान्त्र व्याप्तिपदवैयर्थं, वहिव्याप्ति पक्षधमताविशिष्टधूमावहिमानयं वहिमानित्यादिका तु प्रतिज्ञा प्रकृतहेतौ पक्षधर्मतां बोधयन्यपि न प्रकृतव्याप्तिविशिष्टपक्षधर्मतां बोधयतीति न तत्राति प्रसङ्गः। वस्तुतोव्याप्ति-पक्षधर्मातापदयोर्ककरिषकोपादानात् लक्षणद्वये तात्पर्य, वहिव्याप्तिविशिष्टेत्यादिका तु न प्रतिज्ञा सम्प्रदायविरोधादिति तत्वं । 'चतुर्भिः' प्रतिज्ञाद्यैः, 'पर्याप्नेः' प्राप्तः, 'अपर्यवसानादिति अनुमितिमामय्यसम्भवादित्यर्थः । पर्याप्तेः' ज्ञानजनकत्वात्, 'अपर्यवमानात्' अनुमित्युपधायकज्ञानाजनकत्वादित्यर्थः, इति कश्चित् । ननु प्रतीत्यनुपपत्ति-प्रतीतानुपपत्त्योरभावेनावयवान्तरेण मह निगमनस्य श्राकाहाविरह:(१) इत्याशकते, 'अथेति, 'अभिधान' प्रतीतिः व्याप्ति-पक्षधर्मताविभिएलिङ्गानुभव इति यावत्, 'अभिधेयं' तथाभूतलिङ्गं, 'निराकाझावमिति तथाच चतुर्णमवयवानां व्याप्ति-पक्षधर्माताप्रतिपादनेन
(१) अवयवान्तरार्थविशेष्यक-निगमनार्थप्रकारकबोधनकतावच्छेदको.
भूतानुपूर्तीमत्त्वं नास्तीत्यर्थः।
95