________________
पर्यापत्तिः।
सहकारी सः। न च तस्यां दशायामेव प्रमाणान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य । ननु स्वकारणाधीनस्वभावविशेषातर्कानुगृहीतयथोक्तसंशयस्य यदि वहिःसत्त्वप्रमापकत्वं तदा मृते गृहस्थिते वा तादृशसंशयाद्यत्र वहिःसत्त्वकल्पना सापि प्रमा स्यादिति चेत् । न। यथाहि प्रमापकस्येन्द्रियस्य दोषेण प्रमाशक्तितिरोधानादैन्द्रियकभ्रमः तथा यथातसंशयस्यापि दोषेण प्रमाशक्तितिरोधानादग्रहरूपभ्रमसम्भवात् परोक्षज्ञानानां जनकज्ञानाविभ्रमत्वे यथार्थत्वनियमइति चेत्, सत्यं प्रकृतेऽपि जीवन-गृहाभावनियमग्राहकप्रमाणयोरन्यतराभासत्वेनाभासत्व
ननु लाघवज्ञानस्य प्रमाणन्तरमहकारित्वे प्रमाणन्तरादेव वहि:सत्त्वज्ञानं भविष्यति किमर्थापत्त्येत्यत पाह, 'न चेति, 'तस्यामिति लाघवज्ञानदशायामित्यर्थः, 'स्वभावविशेषात्' विशेषशक्तिविशेषात् । 'प्रमाशक्तौति प्रमाजनकशनेरुद्भावनाशादित्यर्थः, उद्भवश्च शक्तिनिष्ठपदार्थान्तरं, 'अग्रहरूपेति धर्म-धर्मिणोर्भदायहरूपेत्यर्थः, गुरुभिरन्यथाख्यात्यनभ्युपगमादिदमुक्तं । 'जीवन-ग्टहाभावग्राहकप्रमाणयोरिति शतवर्षजीवित्वनिश्चय-योग्यानुपलब्धिजनितग्टहाभावनिश्चययोरित्यर्थः, मृतस्थले जीवननिश्चयस्याभावसत्त्वादिति भावः । कुत्रचित् 'जीवननियमग्राहकयोरिति पाठः अत्रापि 'नियमग्राहक
83