________________
तत्त्वचिन्तामणै
व्यत्तत्वं तदेव केवलान्वयौति धर्मत्वस्यानैकान्तिक त्वात, एवमत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावाप्रति
तथाविधपरस्परोपरलेषावगाहिज्ञानं, तेन यत्राखण्डव्याप्तिरप्रसिद्धा तच नाव्याप्तिः । एवमन्वयसहचारज्ञानजन्यव्याप्तिज्ञानाजन्यानुमितिकरणत्वं केवलव्यतिरेक्यनुमानत्वं, तादृशानुमितित्वञ्च केवलव्यतिरेक्यनुमितित्वं, अन्वयसहचारज्ञानजन्यव्याप्तिग्रह-व्यतिरेकसहचारज्ञानजन्यव्याप्तियहोभयजन्यानुमितिकरणत्वं अन्वय-व्यतिरेक्यनुमानत्वं(१), नादृशानुमितित्वञ्च अन्वय-व्यतिरेक्यनुमितित्वं, शेषं पूर्ववदित्याहुः । तदसत् । व्यतिरेकसहचारज्ञानस्य व्याप्तिग्रहहेतुत्वे मानाभावात्(२)
निरूपितवृत्तित्वविषघतानिरूपित हेतुविषयताशालिज्ञानमेव व्याप्तिज्ञानपदेन विवक्षणीयं, तेन धूमवान् वहेरित्यादौ वह्निसमानाधिकरणाभावाप्रतियोगिधूमसामानाधिकरण्यरूपाखण्डव्याप्तेरप्रसिद्धत्वेऽपि धन्वयसहचारज्ञानमात्रेण व्याप्तिज्ञानदशायां तत्साध्यकानुमा
नस्य न केवलान्वय्यनुमानत्वव्याघात इति ध्येयम् । (१) पत्र व्याप्तिग्रहस्य विधा निवेशे प्रयोजनविरहात् अन्वय-व्यति
रेकोभयसहचारज्ञानजन्यव्याप्तिज्ञानजन्यानुमितिकरणत्वं अन्वय
व्यतिरेक्यनुमानत्वमित्येव वक्तव्यमिति । (२) न चाचार्य्यमते धर्मिविशेषमन्ताव्य व्यभिचारज्ञाने सहचारज्ञानस्य
विरोधित्वात् व्यभिचारज्ञानविघटकतया सहचारज्ञाने व्याप्तिग्रहहे. तुत्वस्य युक्तिसङ्गततया कथं व्यतिरेक सहचारज्ञानस्य व्याप्ति ग्रहहे. तुत्वे मानाभाव इति वाच्यं । समानप्रकारकज्ञानस्यैव विरोधित्वात् विरोध्यविषयकस्य सहचार ज्ञानस्य व्यभिचारज्ञानविघटकत्वाभावा. दिति निगुफाभिप्रायः।