________________
[ ५५२ ]
। अथ केवलान्वय्यनुमान।
तच्चानुमानं विविधं केवलान्वयि केवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्। तथासहिपक्षं केवलान्वयि,
__ अथ केवलान्वय्यनुमानरहस्यं ॥ सामान्यतः सपरिकरं अनुमानं लक्षयित्वा विशेषलक्षणार्थं तदिभजते, . 'तचेति, 'अनुमान' अनुमितिकरणं, 'त्रिविध चैविध्यवत्(), अनुमानविभाजकोपाधित्रयवदिति यावत्, अनुमानविभाजकोपाधिनयमनुमानवृत्तौति समुदितार्थः, तेन विभाजकोपा
(१) पत्र अनुमान त्रिविधं इत्यत्र विधप्रत्ययस्य उद्देश्यतावच्छेदकसमनियत-वस्तुमदन्यसंख्यावाचित्वं, तथाच अनुमानस्य पक्षत्वं खाश्रयाश्रयत्वसम्बन्धेन केवलाम्वयित्व-केवलव्यतिरेकित्वान्वयव्यतिरेकित्वगतत्रित्वसंख्यायाः साध्यत्वं केवजान्वयिभेद-केवलयतिरेकिभेदान्वयव्यतिरेकिभेदान्यतमभेदस्य प्रतियोगितासम्बन्धेन हेतुत्वं । विध. प्रत्ययार्थान्तर्गतसमनियतत्वघटकं व्याप्यत्वं व्यापकत्यच्च खाश्रयात्रयत्वसम्बन्धेन, वस्तुमदन्यत्वघटकवस्तुमत्त्वञ्च खत्तित्व-खसमानाधिकरणखभिन्नत्तियोमयसम्बन्धेन, तादृशविशेषणदानेन केवलान्ययित्व-केवलव्यतिरेकित्वान्वयव्यतिरेकित्वानुमानत्वरूप-सामान्यधम्मगत चतुख्यत्वसंख्याव्युदासः, तादृशचतुष्टयत्वसंख्यायाः उक्तोभयसम्बन्धेग केवलान्वयित्वादिरूपवस्तुविशिष्यत्वात् । उक्तचतुख्यत्वसं. ख्याव्युदासाभावे धनुमानं त्रिविधमितिवत् अनुमानं चतुर्विधमिति विभागापत्तिरिति ध्येयं।