________________
५80
तत्त्वचिन्तामणौ
न। भाविना भूतेन वा यदाकदाचिदिद्यमानेनापि लिङ्गेन परामर्शप्रमात्वसम्भवान्नानुमितिपूर्वसमये तत्म
मितिहेतुत्वमित्यर्थः, लिङ्गत्वमपि माध्यतावच्छेदकसम्बन्धेन माध्यव्याप्यत्वमिति भावः । 'यदाकदाचिद्विद्यमानेनेति यदाकदाचिमाध्यतावच्छेदकसम्बन्धेन पक्षे वर्तमानेनापौत्यर्थः, 'अनुमितीति प्रमानुमितीत्यर्थः, 'तत्प्रमावेति परामर्शप्रमावेत्यर्थः, 'लिङ्गस्य सत्त्वमिति माध्यतावच्छेदकसम्बन्धेन पने लिङ्गस्य सत्त्वमित्यर्थः, 'कारणत्वं वेति 'वाशब्दोयत इत्यर्थ, यतः कारणत्वमित्यर्थः, ननु यदि लिङ्गं न कारणं तदा धूमादिलिङ्गकवद्याद्यनुमितौ धूमादिकालावच्छिन्नत्वसम्बन्धेन कथं वयादर्भानं शाब्दाद्यतिरिक्तभाने उद्देश्य-विधेयभावमहिम्बा तत्कालावच्छिन्नत्वभानं प्रति तज्ज्ञानजन्यत्वमात्रस्य नियामकत्वात्। न च तस्य नियामकले मानाभावइति वाच्यं। तथापि त्वया लिङ्गोपहितलैङ्गिकभानानभ्युपगमेन धूमस्य विशेष्यतानवच्छेदकतया तत्कालावच्छिन्नत्वभानासम्भवादित्यत आह, 'धूमकालोनेति धूमकालावच्छिन्नत्वसम्बन्धेन वयनुमितिश्चेत्यर्थः, 'यदेति यत्र धूमस्तत्र वहिर्यदा धूमस्तदा वहिरिति योजना, तथाच यत्र धूमस्तत्र धूमकालावच्छिन्नत्वविशिष्टसंयोगसम्बन्धेन वहिरिति व्याप्तिज्ञानादेवेत्यर्थः । 'अथ वेति, यति शेषः, 'पक्षतावच्छेदक इति, तति शेषः, ‘पक्षतावच्छेदकधर्मसमानाधिकरणञ्चेति पक्षतावच्छेदककालाधवच्छिन्नविशिष्टव्यापकतावच्छेदकसम्बन्धेन माध्यमित्यर्थः, 'पक्षधर्मताबलात्' तेन सम्बन्धेन