________________
परामर्श।
१५
५४५
नानुमितिमात्र हेतुः लिङ्गं विनापि धूलोपटलात् लिङ्गभ्रमेणानुमित्यत्पत्तेः । "नापि लिङ्गं प्रमानुमिती,
गादिव्यधिकरणसम्बन्धेन पराज्ञातगुणदिव्यक्तिसाध्यकानुमित्युत्पत्तेरित्यर्थः, भगवतो योगिनश्च भ्रमविरहेण तदीयविशिष्टवैशिष्यधौविषयतामादायापि विद्यमानस्य तत्र लिङ्गवासम्भवादिति भावः । 'प्रमानुमित्राविति . साध्वविशेषकानुमितावित्यर्थः, तत्रान्ततोभगवतः साध्यव्याप्यत्वविशिष्टवैशिट्यधीविषयतामादायैव विद्यमानस्य लिङ्गत्वसम्भवादिति भावः । 'तविशेषेति परामर्शस्य यौ विशेषौ प्रमावाप्रमावे ताभ्यामेवेत्यर्थः, 'अनुमितितथात्वादिति अनुमितेः प्रमात्वाप्रमावादित्यर्थः, अन्यथा विद्यमानलिङ्गकभ्रमानुमितिस्थलेऽपि प्रमानुमित्यापत्तेः लिङ्गस्याविशेषादिति भावः। नन्वेतावता प्रमापरामर्श-लिङ्गयोरुभयोरेवानुमितिप्रमावप्रयोजकत्वमस्तु । न च प्रमापरामर्शस्य तत्प्रयोजकत्वावश्यकत्वे लिङ्गस्यापि तत्र प्रयोजकत्वकल्पनं व्यर्थं गौरवयस्तश्चेति वाच्यं । तत्कारणत्वस्यापि विशिष्टधर्मावच्छेदेन कारणताग्राहकप्रमाणममति बाधके विशेषणावच्छेदेनापि कारणत्वं रक्षातौति नियममिद्धतया व्यर्थत्वेन गौरवेण च निराकर्तुमशक्यत्वादित्यतो बाधकमाह, 'यत्मामान्य इति, 'तविशेषस्थति तविशेषस्यैव, तथाच तदवच्छिन्न कार्यताप्रतियोगिककारणतावच्छेदक-व्याप्यधर्म एव तदवच्छिन्नकार्यताव्याप्य-कार्य्यताप्रतियोगिककारणतावच्छेदक इति नियमादनुमितिसामान्यजनकतावच्छेदकाव्याप्यस्य लिङ्गत्वस्य नानुमितित्वावच्छिन्न कार्यताव्याप्य
69