________________
५३६
तत्त्वचिन्तामो
ऋत्रिोच्यते। अतीतानागतधूमादिज्ञानेऽप्यनुमितिदर्शनान्न लिङ्गं तहेतुः व्यापार-पूर्ववर्तितयोरभावात्। न च विद्यमानं श्छिन्नमित्यत अाह, 'तेनेति अनुमितावपि तथा भानस्यावश्यकवेनेत्यर्थः, 'धूमसमानकालोनेति पर्वतो वजिमान् धूमादित्यादौ धमकालौनतासम्बन्धेन वयनुमितिरित्यर्थः, 'तेनेत्यादिकमेव विवृणोति, 'अन्यथेति अनुमितौ तथा भाननियमाभाव इत्यर्थः, 'तत्तदिति वहिमान् धूमादित्यत्र तत्तत्क्षणात्मकधूमकालवृत्तितासम्बन्धेन वयनमितिर्न स्थादित्यर्थः, 'समयविशेषेति तत्तत्क्षणात्मकधूमकालघटितसम्बन्धेन व्याप्ययहादित्यर्थः। न चेष्टापत्तिः, अनुभवविरोधादिति भावः । यद्दा ननु मास्तु वहिमान् धूमादित्यत्र धूमकालीनतासम्बन्धेनापि वयनुमितिः किनछिनमित्यत आह, 'अन्यथेति वहिमान् धूमादित्यत्रानुमितेधूमकालीनतासम्बन्धेन वह्यविषयकले इत्यर्थः, तवेति शेषः, 'तत्तदिति वहौ तत्तत्क्षणात्मकधूमकालवृत्तित्वविषयिन्यनुमितिर्न स्थादित्यर्थः, 'समयविशेषेति तत्तत्क्षणात्मकधूमकालवृत्तिवहित्वप्रकारेण व्याप्यग्रहादित्यर्थः। परामर्शस्य करणत्वं नैयायिकाभिमतमितिभ्रमेण दूषयति, 'किञ्चेति, 'परामर्शएवेति, विषयविधया तस्य लिङ्गजन्यत्वादिति भावः। 'चरमेति खाव्यवहितोत्तरमेवानमितिजनकवादित्यर्थः, 'न तत्करणमिति, 'तत्' परामर्शः, तच्छब्दस्य सर्वनामप्रतिरूपकाव्ययतया परामर्शशब्दस्य पुंलिङ्गत्वेऽपि नपुंसकलिङ्गता, 'तत्' परामर्यात्मकं ज्ञानं, इत्यपि कश्चित् ।