________________
8६२
तत्वचिन्तामणौ .
प्रकारः गोत्वमित्यत्र तु न तथेत्येव विशेष इत्यत पाह, 'अन्यथेति, 'थाप्यत्वग्रह इति गोलघटितव्याप्यत्वग्रहे तादृशव्याप्यत्वविभिष्टवत्तापरामर्थे चानुपयोगप्रसङ्गादित्यर्थः, विशेषणतावच्छेदकप्रकारकज्ञानविधयैव तत्र तस्य उपयोगादिति भावः । ननु गोनिष्ठाभावाप्रतियोगित्वादिगर्भव्याप्यत्वग्रहे तादृशव्याप्यत्वविशिष्टवत्तापरामर्श च विशेषणज्ञानविधयैवास्मन्नये तस्योपयोग इत्यत आह, 'गवेतरेति, गोवृत्ति गोलमित्येव पाठः, तथाच गवेतरासमवेतत्वे मति मकलगोसमवेतत्वमेव तत्रानतिप्रसनो धर्मस्तस्थानुभवसिद्धत्वेनापहवासम्भवादिति भावः । न चैवमिति, ‘एवं' गोत्वेऽपि अनतिप्रसक्तधर्मखौकारे, 'अनवस्थेति तत्रापि धर्मान्तरखौकारेऽनवस्थेत्यर्थः, 'अनुभवेनेति अनुभवसिद्धत्वेनेत्यर्थः, तथाच प्रामाणिकत्वादनवस्थेयं न दोषायेति भावः।
इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानास्यदितीयखण्डरहस्ये परामर्शपूर्वपक्षरहस्यं ।