________________
परामर्शः।
संचयत्वमेवानुमितिकारणतावच्छेदकमिति भावः । यदा ‘पक्षधय' पक्षतावच्छेदकस्य, व्याप्तिविभिष्टज्ञान' व्याप्यवछिनविषययाविज्ञानं, पक्षतावच्छेदकस्येत्यत्र खावच्छिन्नविषयतानिरूपितलं ध्यर्थः, तस्य च व्याप्यवछिनविषयतायामन्वयः, तथाच पक्षतावच्छेदकावच्छिन्नविषयतानिरूपित-व्याप्यवच्छिन्नविषयताशालिज्ञाममेवानुमितिहेतुरिति पूर्वाक एव शब्दार्थः ।
यत्तु ‘पक्षधर्मस्य' पक्षतावच्छेदकावच्छिन्नस्य, सप्तम्यर्थे षष्ठी, 'व्याप्तिविशिष्टज्ञानं' व्याप्तिविशिष्ट प्रकारकशानं, पक्षतावच्छेदकावछिन्ने व्याप्तिविभिष्टवैशिष्यावगाहिज्ञानमिति यावत्, तदेवानुमितिहेतरित्यर्थः, नव्यनये पक्षतावच्छेदकावच्छिन्नविशेष्यकव्याप्तिविशिष्टवैशिघ्यावगाहिज्ञानस्यैवानुमितिहेतुत्वादिति वदन्ति। तदमत् । अये व्याप्यविशेष्यकपरामर्शस्यापि हेतुत्वेन वक्तव्यत्वात्तदमङ्गत्यापत्तेः ।.
भट्टाचार्यास्तु ननु प्राचां नये पक्ष-व्याप्तिविशिष्टोभयवैशिष्यावगाहिनिश्चयत्वावच्छिन्नकारणताप्रतियोगिक-कार्य्यताघटितमनुमितिखक्षणं प्रागुतं तचासम्भवि वहिव्याप्यो धूमः धमवान् पर्वत इति ज्ञानादप्यनुमित्युत्पत्तेः तेन रूपेणानुमित्यहेतुत्लादित्यत श्राह, 'पञ्चधर्मस्येति, अर्थस्तु पूर्ववत्, इत्यनुमितिलक्षणोपोद्दातमङ्गत्या प्रकृतग्रन्थमवतारयन्ति । ___ गुरुः प्रत्यवतिष्ठते, 'नन्विति, 'याप्यतावच्छेदकप्रकारेण' तथाच गुरमतेऽपि नैयायिकमतसिद्धकारणतावच्छेदकस्य प्रथमोपस्थिसत्वरूपलाघवं सम्भवतीति ।