________________
वावचिन्तामो
"तदा हि सत्यतिपक्षे सत्प्रतिपक्षान्तावदपारुडावनं न स्यात्। न च प्रतिपक्षबाहुल्येनाधिकरलार्थ मुद्धावनं.
तिपक्षे' स्वयं माध्यमाधकहेतोरुपन्यामानन्तरं वादिना साध्याभावमाधकहेतावुपन्यस्ते, ‘सत्प्रतिपक्षान्तरवदिति माध्यसाधकहेत्वन्तरस्य यथा नोद्भावनं तथा उपाधेरप्युगावनं न स्थादित्यर्थः, माध्याभावसाधकहेतमत्ताज्ञानात्मकप्रतिबन्धकसद्भावादुपास्तत्र यथोक्दूषकत्वासम्भवेन व्यर्थत्वादिति भावः । 'मत्प्रतिपक्षबाहुल्येनेति माध्यमा. धकामेकहेतुज्ञानसत्त्वेनेत्यर्थः, साध्याभावसाधकहेतमत्ताज्ञानसत्त्वेऽपि साध्यानुमितेरुत्पादादिति शेषः, 'अधिकबलार्थमिति माध्याभावसाधकानुमितिप्रतिबन्धकसाध्यानुमित्यर्थमेवेत्यर्थः। न चैवं मत्प्रतिपक्षान्तरस्याप्युद्भावनापत्तिः, इष्टत्वादिति भावः। 'शतमपीति, 'न्यायात्' तान्त्रिकप्रवादात्, तथाच माध्याभावसाधकहेतुज्ञानसत्त्वे माध्यसाधकानेकहेतुज्ञानात् साध्यानु मित्युत्पादे प्रवादव्याघातः, 'अन्धानां' माध्याभावमाधकहेतुमत्ताज्ञाननिष्ठाप्रामाण्यज्ञानाद्यभावविशिष्टज्ञानविषयाणां माध्यसाधकहेना, 'शतमपि', 'न पश्यति' न माध्याभावसाधकैकहेतमत्ताज्ञानसत्त्वे साध्यानुमिति जनयतीति तदर्थादिति भावः । ननु तन्यायोऽप्रमाणं इत्यत आह, 'एकेनापौति तदभावसाधकैकहेतमत्ताज्ञानेनापि, 'बहनां' तत्माधकानेकहेतुमताज्ञानानां, ‘फलप्रतिबन्धात्(१)” फलप्रतिबन्धस्यानुभवसिद्धत्वाचे(१) एतेन 'प्रविबन्धादित्यत्र ‘फलप्रतिबन्धादिति कस्यचिन्मूलए तकस्य
पाठोऽनुमीयते।