________________
उपाधिवादः।
रस्य तबाभावादपाधिरेव भावत्वादिकं दोषः। न चैवं शब्दोऽभिधेयः प्रमेयत्वादित्यवाश्रावणत्वं जलं प्रमेयं सवत्त्वादित्यत्र पृथिवौत्वमुपाधिः स्यात्५, केवलान्वयि
मरमिति ध्वंसो विनाशौ जन्यत्वादित्यादौ विशिष्टसाध्यव्यापकभावत्वायुद्धावने नार्थान्तरमित्यर्थः । न च तस्यापि 'परम्परया वेति पचे प्रथमं तदुद्भावनेऽप्राप्तकालत्वमस्येव अन्यथा उपाधिमाधकतत्साधकादिपरम्परया अप्युद्भावनेऽप्राप्तकालत्वं न स्यादिति वाच्य। प्रथमं शुद्धसाध्यव्यभिचार एव उद्भाव्यः, तत्र कथन्तायां तद्धेतुत्वेन विशेषणाव्यभिचारित्वे सति विशिष्टसाध्यव्यभिचारित्वमुद्भाव्यं, तप विशेषकथन्तायां तद्धेतत्वेन विशिष्टसाध्यव्यापकोपाधिरुहाव्यः, इत्यप्राप्तकालत्वविरहात्। न च तथापि साक्षात् शुद्धसाध्यव्यभिचारानुमापकत्वात् विशिष्टमाध्यव्यापकोपार्दोषत्वं न स्यादिति वाचं। साक्षात्परम्परामाधारणव्यभिचारानुमापकत्वस्यैव दोषतायां तन्त्रत्वादिति भावः।
केचित्तु प्राकारान्तरेण लक्ष्यतावच्छेदकं निर्वक्ति, 'यद्देति, 'यः साधनव्यभिचारी' साधननिष्ठो यड्यभिचारः, 'माध्यव्यभिचारोबायकः' माध्यव्यभिचारानुमितिस्वरूपयोग्यः, माध्यव्यभिचारममानाधिकरण इति यावत्, स उपाधिरित्यर्थः, द्रव्यं पृथिवीलादित्यादिसद्धेतौ साध्यव्यापकस्य गुणवत्त्वादेः माध्यव्याप्यस्य घटत्वादेश्वोपा
(१) एथिवीत्वमुपाधिः स्यादिति वाच्यं इति ख• ।
45