________________
उपाधिवादः ।
३५१
मानाधिकरणात्यन्ताभावाप्रतियोगित्वं तच्चाभेदेऽपि। यहा यः साधनव्यभिचारी साध्यव्यभिचारोबायकः
नविकणवात् अधिकरणभेदेन घटभेदस्य भेदाभावात्। नापि व्यतिरेकेण, मिचातनयत्वं न मित्राजन्यतावच्छेदकधर्मवत्त्वमाचं तस्य तनयत्वाखरूपत्वात्, अत एव न मित्राजन्यत्वविशिष्टपुस्खाख्यावयवविशेषः प्राचां नये वृत्त्यनियामकसम्बन्धस्य शक्यतावच्छेदकतानवच्छेदकतया तथापि तनयत्वाखरूपत्वात्, अपि तु मित्राजन्यत्व विशिष्टपुंस्वाख्यावयवविशेषसमवेतत्वं, छिन्नलिङ्गखण्डमरौरं तु नपुंसकवन्न पुचः, तथा खरूपसम्बन्धेनैव तस्य स्थापनानुमाने हेतुतया मरूपसम्बधेन थामत्वव्यभिचारस्यैवात्र माध्यत्वेनाघटत्वे माध्याभावविरहादित्याशङ्कायामाह, 'अव्यभिचारश्चेति, 'तत्समानाधिकरणेति मित्रातमयत्वाधिकरणौभूतयत्किञ्चिद्व्यक्तिनिष्ठेत्यर्थः, तेन मित्रातनयत्वसमानाधिकरणत्वं फलितं, यथाश्रुते हेतावुकरीत्या व्यर्थविशेषणत्वापत्तेः, 'तच्चेति, 'अभेदेऽपि' घटभेदस्याधिकरणभेदेन भेदाभावेऽपि, तवास्तौति शेषः । न चैवं न्यामत्वादावेव व्यभिचारः तस्यापि मित्रातनयत्वसमानाधिकरणत्वात् शाकपाकजत्वव्यभिचारित्वाच्च इति वाच्य। यस्मिन्नधिकरणे मित्रातनयत्वमामानाधिकरण्यं तत्र भाकपाकजलव्यभिचारित्वस्य विवक्षितत्वात् मित्रातनये शाकपाकजत्वव्यभिचारित्वादिति तु फलितार्थ इत्याहुः ।
नन्वेवं साध्यव्यभिचारानुमापकत्वेनोपाधिव्यभिचारस्यैव दोषतया स एव उपन्यसितमुचितो नोपाधिरिति प्रागुकदोषो दुार