________________
उपाधिवादः।
२९५
नत्वाभिमताव्यापकः, अनौपाधिकत्वज्ञानच नव्याप्तिजाने हेतुरतो व्यापकत्वादिजाने नान्योन्याश्रयः।
ज्ञानादित्यर्थः, तथाच यथा खौयहेतौ व्याप्तिग्रहोपायसत्त्वे व्याप्तिनिश्चयादिजयः, तथा परप्रयुकहेतावुपाध्यद्भावनेऽपि उपाधिज्ञानाविजय इति विजयलक्षणेककार्यानुकूलत्वमेव मङ्गतिरिति भावइति प्राडः। ___ मिश्रास्तु व्याप्तियहोपायोपपादकत्वलक्षणोपोहात एव व्याप्तिग्रहोपायनिरूपणानन्तरं उपाधिनिरूपणे मङ्गतिः, उपाधे ने तदभावज्ञानं तदभावज्ञाने च तव्याप्यस्य व्यभिचारस्थाभावज्ञानं तज्ज्ञाने च प्रतिबन्धकसत्त्वान व्यभिचारज्ञानमिति क्रमेणोपाधेाप्तिग्रहोपायव्यभिचारज्ञानविरहं प्रत्युपपादकत्वात्, तथाच मूले उपाधिज्ञानात्र व्यभिचारज्ञाने व्याप्तिनिश्चय इति योजमा, 'न व्यभिचारज्ञान इत्यस्य व्यभिचारज्ञानाभावे सतीत्यर्थः । न च नार्थ अभावे प्रतियोगितया प्रथमेतरविभक्त्यन्तार्थस्य नान्चय इति शुत्पत्त्या सप्तम्यन्तार्थस्य व्यभिचारज्ञानस्य कथं नार्थईन्वय इति वाच्यं । तादृशव्युत्पत्तौ मानाभावात्, “तेषां मोहः पापीयानामूढस्येतरोत्पत्तेरिति न्यायसूत्रे पञ्चम्यन्तार्थस्याप्युत्पादस्य नर्थऽन्वयदर्शनात्, 'तेषां' राग-द्वेष-मोहानां चयाणं मध्ये, 'मोहः पापौयान्' मोहः श्रेष्ठतमोदोषः, 'अमूढस्य' मोहरहितस्य पुरुषस्य, 'इतरयोः रागद्वेषयोरुत्पत्तेरभावादिति तदर्थादिति प्राङः ।
'तच' करणैये निरूपणे, विषयत्वं सप्तम्यर्थः, तथाच निरूपण