________________
तवचिन्तामो
रूपणे च() तमिवृत्त्यैवावसरसङ्गत्या उपमाननिरूपणमिति भावः इत्याङ:() तन्नये ज्ञानप्रयोज्यप्राथमिकजिज्ञासाप्रयोज्यत्वमव पञ्चम्यर्थः, अन्वयश्चास्य उपमानात् प्राङ्गिरूपणे एवञ्च बड़वादिसमतत्वज्ञानप्रयोज्यप्राथमिकजिज्ञासाप्रयोज्योपमानप्राङ्गिरूपणविषयोऽनुमानमित्यन्वय इति ध्येयम् ।
मिश्रास्तु प्रत्यक्षोपजीवकत्वादित्यादिः ‘निरूप्यत इत्यन्तग्रन्थोऽत्र कस्खचित् कल्पितो न तु वास्तविकः पाठः । 'प्रथानुमानं निरूप्यते' इत्येव पाठोवास्तविकः, तावतैव सिद्ध-साध्यसमभिव्याहारबललभ्यस्य हेतु-हेतुमद्भावस्य प्रतिबन्धकोभत जिज्ञासानिवर्तकसिद्धत्वकथनेनावसरस्य च मङ्गतित्वलाभसम्भवात्, अन्यथा शब्दखण्डेप्युपमानोपजीवकत्वात् उपमानानन्तरं शब्दोनिरूप्यते इत्यस्य वक्रव्यवापातादित्याङः।
अनुमिते. प्रत्यक्षादिप्रमितिभिन्नत्वज्ञानं विना अनुमितिकरणत्वेन अनुमानस्य दूतरभिन्नत्वज्ञानं न सम्भवति अनुमिति-प्रत्यक्षथोरभेदग्रहात् प्रत्यक्षाादेप्रमितिकरणे व्यभिचारज्ञानापत्तेः, अतः प्रथमतोऽनुमितेरितरभेदानुमापकमाह, 'तत्रेति, अतोनार्थान्न
रावकाशः ।
केचित्तु अनुमितिकरणत्वमनुमानलक्षणं करणीयं, तशामञ्च नानुमितिज्ञानं विमा सम्भवति तस्य तद्दटितमूर्तिकत्वा
(१) अनुमाननिरूपणे इत्यर्थः, वन्निबंधने इति ख• । (२) इति वदन्तीवि हम.।।