________________
बातिवाद।
निमित्ताभावादिति योगार्थाभावादित्यर्थः, यथा स्थलपान पानपदवाचमिति भावः । इदमापाततः यौगिकप्रवृत्तिनिमित्ताभाबेऽपि केवणरूब्यर्थमादाय उपाधिपदवायत्वस्थ दुर्वारत्वात्, नहि योगार्थविशिष्टोतल्यर्थः प्रवृत्तिनिमित्तः । न चैवं स्थलपद्मस्थापि पहजपदवाच्यत्वापत्तिरिति वाच्यं । यदि च तव्यावर्तकं वैजात्यं न रूयर्थतावच्छेदकं तदा तस्यापि दुवारत्वात् । अतएव प्रामाणिकाः तद्दारनं तत्र रूत्यर्थतावच्छेदकमामनन्ति । नन्वेवं विषमव्याप्तस्योपाधिपदावाच्यत्वे दूषकतापि तस्य न स्थादित्यत आह, 'दूषकता चेति, 'तस्थ' विषमव्याप्तस्य, 'यभिचारोबायकतयेति व्यभिचारित्वसम्बन्धेन तबत्तया माध्यव्यभिचारानुमानसम्भवादित्यर्थः, 'उपाधितेति उपाधिपदवाचतेत्यर्थः, तादात्म्यसम्बन्धेन तयोरपि माध्यव्यभिचारानुमापकत्वादिति भावः। 'अप्रयोजक-माध्यव्यापकव्यभिचारिणः' अप्रयोजकत्व-साध्यव्यापकव्यभिचारित्वयोरित्यर्थः, इति केचित्। न .प खव्यभिचारित्वेन माध्यव्यभिचारानुमापकत्वमेव तथास्तु अप्रयोजकत्वादिकन्तु न तथेति वाच्छं। योगार्थापेक्षया तस्य गुरुत्वादिति दिक्।
इति श्रीमथुरामाथ-तर्कवागौगविरचिते तत्त्वचिन्तामणिरहस्से अनुमानास्थद्वितीयखण्डरहस्ये विशेषच्याप्तिरहस्यं, सम्पर्णव व्याप्तिवादरहस्य(१)।
(१) पतएव चतुष्टयरहस्यस्य विशेषव्याप्तिरहस्यान्तर्गतत्वेन पादर्भपुस्तकेषु एथनिर्देशेऽपि पत्र न एथनिर्देशः अपि तु वदन्तर्गतनैवेति।