________________
१
तत्वचिन्तामणे योगिसम्बन्धितथा तादृशाभावाप्रसिद्धेः प्रतियोगितावच्छेदकसम्बन्धेन तथावाभिधाने च सम्बन्धाननरावछिनाभावमादायैव प्रसिद्धिरित्यनुपदं वक्ष्यामः। __ प्रतियोगितावच्छेदकावच्छिन्नवञ्च प्रतियोगितावच्छेदकताव
केदकसम्बन्धेन बोध्यं तेन गुण-कर्मान्यत्वविशिष्टसत्तावान् सत्त्वादित्यादौ हेवधिकरणस्य गुण-कर्मादेः स्वरूपसम्बन्धेन गुण-कर्मान्यत्ववतः सत्त्वादेः समवायसम्बन्धेनाधिकरणत्वेऽपि(१) नातिव्याप्तिः। मनु तथापि प्रतियोगितावच्छेदकावच्छिनासम्बन्धित्वं किं प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचिदसम्बन्धित्वं, प्रतियोगितावच्छेदकावच्छिन्नसामान्यासम्बन्धित्वं वा, प्रतियोगितावच्छेकयत्किञ्चिदवच्छिन्नसामान्यासम्बन्धित्वं वा, श्राद्ये कपिसंयोगौ एतद्वृक्षत्वादित्यादावव्याप्तिः कपिसंयोगत्वावछिन्नयत्किञ्चित्कपिसंयोगासम्बन्धित्वादेतदृक्षस्य, द्वितीये वहिमान् धूमादित्यादावसम्भवः यतः एवमभावो नास्ति यस्य प्रतियोगितावच्छेदकावच्छिन्नसामान्यासम्बन्धी हेतुसम्बन्धी पर्वतादिः, जलवाद्यभावनिष्ठस्याकाशाभावादिभेदस्याभावाधिकरणकाभावत्वेनाधिकरणखरूपतया श्राकामाभावादिरपि जलवाद्यभावप्रतियोगी तत्सम्बन्धित्वात् पर्वतादेः। न च द्र्व्यवाचात्मकभावरूपाभाव एव तादृशः प्रसिद्ध इति वाच्यं । भावस्थापि स्वसमानाधिकरणन्योन्याभावभिन्नत्वात्त दस्थ साधिकरणवरूपानतिरेकितया अन्योन्याभावरूपप्रतियोगिसम्बन्धिहेत(९) सामाणाधिकरण्यसम्बन्धेन गुण-कम्मान्यत्वविशिवसत्ताधिकरणत्वस्यैव
विशिडाधिकरणतात्वमिति भावः ।