SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ " 77 ततः श्रीमतः स्मृत्वा प्रणमेत् । "महानन्दैकपाथोधितारवक्रेन्दु मण्डले || नमस्तेङ्घ्रिपदाम्भोजं रक्ष मां शरणागतम् ” ॥१२९ ॥ ततः सर्वोत्तमजपः कार्यः । तत्रादौ श्रीमदाचार्यान् स्मृत्वा प्रणमेत् । " निःसाधनजनोद्वारहेतवे प्रकटीकृतम् ॥ गोकुलेशस्य रूपं श्रीवल्लभं प्रणमाम्यहम् ॥ १३० ॥ ततो | जपान्ते प्रभुं नत्वा विज्ञापयेत् । भजनानंददानार्थं पुष्टि मार्गप्रकाशकम् ॥ करुणावारुणीयं श्रीवल्लभं प्रणमाम्यहम् ॥ १३१ ॥ ततः शरणमन्त्रजपः कार्यः । तत्रादौ प्रभुं स्मृत्वा प्रणमेत् । " गृहाद्यासक्तचित्तस्य धर्मभ्रष्टस्य दुर्मतेः ॥ विषयानन्दमग्रस्य श्रीकृष्णः शरणं मम " ॥ १३२ ॥ ततो जपान्ते नत्वा विज्ञापयेत् । " संसारार्णवमग्नस्य लौकिकासक्तचेतसः ॥ विस्मृत स्वीयधर्मस्य श्रीकृष्णः शरणं मम" ॥१३३॥ ततो महामन्त्रजपः कार्यः । तत्रादौ प्रभुं स्मृत्वा प्रणमेत् । “लौकिकमार्गनिवृत्तिरतोऽपि स्वस्थितमूलविचारचलोऽपि ॥ दुर्मुखवादिव चस्तरलोऽपि च कृष्ण तवास्मि न चास्मि परस्य " ॥ १३४ ॥ ततो जपान्ते प्रभुं नत्वा विज्ञापयेत् । " प्राप्तमहाबलवल्लभजोऽपि दुष्टमहाजन संगरतोऽपि ॥ लौकिकवैदिक धर्मखलोऽपि कृष्ण तवास्मि नचास्मि परस्य " ॥ १३५ ॥ ततो नामावलीजपः कार्यः । तत्रादौ प्रभुं विज्ञापयेत् । " प्रीतो देहि स्वदास्यं मे पुरुषार्थात्मकं स्वतः || त्वद्दास्यसिद्धौ दासानां न किञ्चिदवशिष्यते " ॥ १३६ ॥ ततो जपान्ते प्रभुं नत्वा विज्ञापयेत् । नमो भगवते तस्मै कृष्णायाद्भुतकर्मणे । रूपनामविभेदेन जगत्कीडति यो यतः ॥ १३७ ॥ इति जपः ॥ जप समय लौकिकासक्ति विषय वासना पर चित्त न राखिये । श्रीमदाचार्यजीके चरणारविन्द पर चित्त राखिये । उपरान्त पाठ श्रीपुरुषोत्तम 66 77
SR No.010554
Book TitleVallabhvrushti Prakash
Original Sutra AuthorN/A
AuthorGangavishnu Shrikrushnadas
PublisherGangavishnu Shrikrushnadas
Publication Year1937
Total Pages399
LanguageHindi, Sanskrit
ClassificationInterfaith & Hinduism
File Size121 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy