________________
200000000000000000000000000000000000000000000000000
सिंहो बलिद्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् ।
पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ ४० ॥ सत्योत्तरदानाद् राजा रञ्जितः। वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं रम्यं धाम मनोरमं वपुरहों ! नव्यो वयःसंगमः । कालोऽयं जलदागमस्तदपि यः कामं जिगायाऽऽदरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं प्रभुम् ॥४१॥
श्रीनेमितोऽपि शकडालसुतं विचार्य मन्यामहे भटममुं वयमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं यन्मोहनालयमयं तु वशी प्रविश्य ॥ ४२ ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रगतप्रचारः।
कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो नाक्तोऽञ्जनागारनिवास्यहो ! यः ॥ ४३ ॥ श्रीस्थूलभद्रेण कोशाऽपि प्रतिबोधिता| कुरंडरंडत्तणदूहगाई वझत्तनिंदूविसकन्नगाई । जम्मंतरे खण्डिअसीलभावा नाऊण कुज्जा दढसीलभावं ॥४४॥ | इत्याद्युपदेशशतैः । अत एव स्थूलभद्रनामस्मरणं चतुरशीतिजिनचतुर्विशतिकां यावद् भविष्यति ।
(८७)
00000000000000000000000000000000000000000000000000