________________
ooooo०००००००००००००००००00000000000000000000०००००००००००
एवमपरैः शीलाराधने यतनीयम् । इति तृतीयोपदेशः । पुनः प्रकारान्तरेण यथा
सीमा खानिषु वज्रखानिरगदकारेपु धन्वन्तरिः कर्णरत्यागिषु देवतासु कमला दीपोत्सवः पर्वसु ।
ओङ्कारः सकलाक्षरेपु गुरुषु व्योम स्थिरेषु क्षितिः श्रीरामो नयतत्परेपु परमं ब्रह्म व्रतेषु व्रतम् ॥ ४५ ॥ ब्रह्मव्रतं शीलोपदेशमालाशीलकुलकादिनानाप्रकरणभणनवाचनादिनाऽऽराधनीयम् । ब्रह्मवताराधने सुभाषितसहस्राणि सन्ति, अत्र ग्रन्थगौरवभयाद् नोक्तानि खयमवतारणीयानि। सूक्तावलीप्रभृतिधर्मोपदेशग्रन्थेभ्यः शीलवतोदाहरणानि संक्षेपतः कियन्ति कथ्यन्ते, तद्यथा
श्रीमन्नेमिजिनो दिनोऽघतमसां जम्बूप्रभुः केवली सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः।
साऽच्चङ्कारिसरस्वती च सुभगा सीता सुभद्रादयः शीलोदाहरणे जयन्ति जनितानन्दा जगत्यहृताः ॥४६॥ श्रीनेमीश्वरभ्राता रथनेमिः रागतुरङ्गमेण पातितोऽपि गिरिगुहायां निरावरणराजीमतीरूपमोहितोऽपि राजीमत्या प्रतिबोधितस्तपस्तप्त्वा शिवं गतः । यतः
रागद्वेषतुरङ्गमपौनःपुन्याधिरोहपतनशतैः । विहिताभ्यासस्तदुपरि दत्तपदस्त्वरितमेति शिवम् ॥ ४७ ॥ वसन्तपुरे शिवङ्करः श्रेष्ठी परमार्हतो निवसति स्म। तत्र श्रीधर्मदाससूरयः संप्राप्ताः। वन्दनार्थ शिवङ्करो गतः।
(८८)
-०००००००००००००००००००००००००००००००००००