________________
50000000000000000000000000000000000000000000000000
वन्दनकानि दत्तानि। गुरुपार्श्वे आलोचना गृहाता।सहर्षेणाऽभाणि-भगवन् ! मम लक्षसाधर्मिकभोजनप्रदानमंनोरथोऽस्ति, परं किं करोमि ?, धनं तथाविधं नास्ति । गुरुभिरभाणि-याहि भृगुकच्छे श्रीमुनिसुव्रतस्वामिवन्दनार्थम्, तत्र जिनदासाभिधः श्राद्धः भार्यासुहागदेवीयुतः सर्वशक्त्या वस्त्रभोजनाद्यलङ्करणीयः, तहात्सल्येन लक्षसाधर्मिकभोजनदानपुण्यं भविष्यति । ततस्तेन तथा कृतम् , भोजनादिभक्त्या जिनदासः प्रपूजितः। तदनु पृष्टं | चतुष्पथे, भोः!, जिनदासः सुकृती कीदृशोऽस्ति सत्यो वा दाम्भिको वा ?। लोकाः कथयन्ति-शृणु भोः!, जिनदासः सप्तवार्षिकःशालायां प्राप्तो गुरुमुखात् शीलोपदेशमालाव्याख्यां श्रुत्वा एकान्तरितब्रह्मव्रतं प्रतिपन्नम् । एवं सुहागदेव्याऽपि साध्वीपार्श्वे एकान्तरशीलप्रतिपालनं प्रतिपन्नम्। भवितव्यवशात् परस्परं पाणिग्रहणं जातम् । ततो यस्मिन् दिने जिनदासस्य मुत्कलम् , तस्मिन् दिने सुहागदेव्या नियमः, यस्मिन् तस्या मुत्कलं तस्मिन् तस्याभिग्रहः । तद्नु सुहागदेव्याऽभाणि-स्वामिन् ! पुनरपरस्याः पाणिग्रहणं कुरु, अहं दीक्षां गृह्णामि । तदनु गुरुपार्श्वे ब्रह्मव्रतमेव प्रतिपन्नं यावज्जीवं सकलश्रीसङ्घमाडप्रदानपूर्वम्। अतः कारणात् शिवङ्कर ! जिनदाससमानस्तु श्रावकः संप्रति न श्रूयते आबालब्रह्मचारी महाधर्मपात्रम् । तत्पादपर्युपासनां कृत्वा शिवङ्करः वसन्तपुरे आगात्। इति ब्रह्मव्रते जिनदासदृष्टान्तः । यथा शीलमाहात्म्यम्