SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ -o0o0o0ooooooooooooooooooooooooooooooooo0RRRRRnnnnn लोकप्रसिद्धा कथा । इत्यादिस्त्रीस्वरूपं विभाव्य शीलं परिपालनीयम्। इति शीलोपदेशः। पुनः प्रकारा४] न्तरेण यथा___मनुष्याः किङ्करायन्ते देवा निर्देशवर्तिनः । शीलभाजोऽथवा कस्य कल्पवृक्षो न वल्लभः १ ॥ २८ ॥ शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन । नैके नरा नीचकुले प्रसूताः स्वर्ग गताः शीलमुपेत्य धीराः ॥ २९ ॥ विभूतयोऽपि मा भूवन शीलम्लानिपचेलिमाः। गेहदाहसमुद्भूतमुद्द्योतं कः समीहते ? ॥ ३० ॥ दृष्टान्तो यथा-सीता महासती राज्यशृङ्गारार्पणप्रलोभिनाऽपि रावणेन न शीलाद् भ्रष्टा । यदुक्तम् ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव त्याज्यो नार्या नरः परः ॥ ३१ ॥ सीतया दुरपवादभीतया पावके खतनुराहुतिः कृता। पावकस्तु जलतां जगाम यत् तत्र शीलमहिमाविजृम्भितम्॥३२॥ मनसि वचसि काये जागरे स्वप्नमार्गे यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह ममाङ्गं पावकं पावकेदं सुकृतविकृतभाजां येन लोकैकसाक्षः ॥ ३३ ॥ कुण्डले नाऽभिजानामि नाभिजानामि कङ्कणे । नूपुरे त्वभिजानामि नित्यं पादाञ्जवन्दनात् ॥३४॥ 000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy