SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ROCATED 00000000000००००००००००००००००००००००००००००००००००००००००० सा. जगसी सा० मुहणसी सं० आभू सं० पेथडझांझणादीना कीर्तिदानप्रबन्धाः स्वयं वाच्याः। एवमभयसुपात्रानुकम्पोचितकीर्तिभेदाद् दानं पञ्चविधं व्यावर्णितम् , परं 'दोहि वि मुक्खो भणिओ' तेषु अभयदानसुपात्रदानाभ्यां मोक्षो भवति, श्रीआदीश्वरचन्दनादिवत् । तिन्नि वि भोगाइयं दिति' तेषु अनुकम्पोचितकीर्तिदानानि भोगादिकं राज्यऋद्धिप्रभृतिकं ददति, मेघकुमारवत् । उचितदानात् कृतप्रतिकृतभोजनवस्त्रपात्रादि फलम् , कीर्तिदानात् महत्त्वं खोत्कर्षश्च । अतः कारणाद् विवेकिभिः सर्वप्रकारैः श्रीदानधर्मः समाराधनीयः ।। इति सुपात्रदानोपदेशो द्वितीयः । अथ शीलोपदेशः। ये यौवने शीलधरा नरा स्युस्तेषामहो ! सत्पुरुषेषु रेखा । ते तारकाः स्युः प्रविशन्ति पूरे तरङ्गिणीनां तरणक्षमा ये ॥ १॥ इह जगति सकललोकश्लाघनीयास्त एव धन्या ये यौवनेऽपि शीलालङ्कृताः सन्मार्गगामिणः । यतः (८१)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy