________________
MeoMeooooooooooooooooooooooooooooooooooooooo
यौवनेऽपि प्रशान्ता ये ये च हृप्यन्ति याचिताः । वर्णिता ये च लज्जन्ति ते नरा जगदुत्तमाः ॥ २ ॥ ये न स्खलन्ति ते दक्षाः कृष्णकेशतमोभरे । वाईके तु सदोद्योतः शिरस्थपलितेन्दुतः ॥ ३ ॥ यौवने व्रतपालनं दुष्करम् । यतः
मकरध्वजशार्दूलं पञ्चेन्द्रियविपयतस्कराकीर्णम् । क्षेमेण नरः को वा तारुण्यारण्यमुत्तरति ? ॥ ४ ॥
यौवने विकरोत्येव मनः संयमिनामपि । राजमार्गे प्ररोहन्ति वर्षाकाले किलाऽङ्कुराः ॥ ५॥ शीलरत्नयुजा पुरुषेण स्त्रीनिन्दा मनसि चिन्तनीया । यथा
इयं रण्डा कुण्डी कलिमलमलस्यैव सुतरां चलदम्भारम्भस्फुरदतुलपिण्डीव विहिता।
करण्डी चात्यन्तं चटितनिकरस्येह विधिना विमां रामां निन्द्यां परिहर वृषश्रेणिचरटीम् ॥ ६॥ जासिं च सङ्गबसओ जसधम्मकुलाई हारिसे मूढ ! । तासिपि किंपि चित्ते चिन्तसु नारीण दुच्चरियं ॥७॥ पढमं चिअ पविसंती नवसंगमलज्जिअव्व मणभवणे । बाला विवेगदीवं दिप्पन्तं झत्ति विज्झवइ ॥ ८॥
मा वच्चह वीसंभं नईण नारीण कुडिलमग्गाणं । वडिअपयोहराओ कुलाई कूलाई पाडन्ति ॥ ९॥ प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ।। १० ॥
000000000000000000000000000000000000000000000000